________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
58
A DESCRIPTIVE CATALOGUE OF स एवारिवलवेदार्थः सर्वशास्त्रार्थ एव च । स एवारिवलशब्दार्थः इत्याहोपनिषत्परा ॥ तावा एक ऋच इति विशेषेणाप्यूगर्थताम् । यो देवानामिति श्रुत्या देवनाम्नां विशेषतः ॥ स्पष्टत्वात्तद्गतत्वन तत्राहाग्रेऽग्निनामकम् । अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् ॥ एवमेवाह भगवान्निरुक्ति बादरायणः । मयैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने ॥ तथा निरुक्ति वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये । इति तेनाग्निशब्दोऽयमन एवाभिपूज्यताम् ॥ अश्यत्वमग्रनेतृत्वमतिसङ्गाङ्गनेतृताम् । आहतं स्तौम्यशेषस्य पूर्वमेवं हितं प्रभुम् ॥ ऋत्विडियामकत्वेन यज्ञानां ऋत्विजं सदा । द्योतनादि(नि)जया कान्त्या स्तुत्या व्यवहृतेरापि ॥ गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः । अग्निसंस्थेन रूपेण यतोऽग्निहॊतृदेवता ॥ इन्द्रियाग्निषु चार्थानां यद्रोमा होतृनामकः । रतिधारकोत्तमत्वात्स रत्नधातम ईरित. ॥ स पूर्वेनूतनैरेष्यविज्ञानादृषिनामभिः । ईडयो देवादिभिस्सर्वैः स च देवानिहानयेत् ॥ तेनैव रयिमाप्नोति वित्तविद्याधनात्मकम् । दिवसे दिवसे नित्यं पुष्टिमेव न हीयताम् ॥
For Private and Personal Use Only