________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36
A DESCRIPTIVE CATALOGUE OF
End:
ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम । श्रियः पञ्चदशचं च श्रीकामः सततं जपेत् ॥ (आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः) ऋषयस्ते त्रयः पुत्राः स्वयं श्रीरेव देवता । पद्मानने पद्मोरु पद्माक्षि पद्मसम्भवे । त्वं मां भजस्व पद्माक्षि येन सौख्यं लभाम्यहम् ॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीः जयलक्ष्मीः सरस्वती। श्रीलक्ष्मीवरलक्ष्मीश्च प्रसन्ना मम सर्वदा ।। वराङ्कशौ पाशमभीतिमुद्रां करैर्वहन्ती कमलासनस्थाम् । बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां जगदीश्वरी ताम् ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥ लक्ष्मी क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरी दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कराम् । श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनी सरसिजां वन्दे मुकुन्दप्रियाम् ॥ महादेव्यै च विद्महे विष्णुपत्नयै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥
ओं शान्तिः शान्तिः शान्तिः ।
For Private and Personal Use Only