________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नाद्यः, घटत्वाभावे साध्ये स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयत्वहेतौ हेतुनिरूपितां घटनिष्ठाधिकरणतामादाय साध्यतावच्छेदकावच्छिन्नसाध्यनिष्ठप्रतियोगिताकाभावप्रमाया अपि लक्षणघटकत्वादव्याप्त्यापत्तेः।
नापि द्वितीयः, प्रकारताविशेष्यतयोरिवाधारत्वाधेयत्वयोरपि परस्परं निरूप्यनिरूपकभावसत्त्वेन वह्निमान् धूमादित्यादौ धूमादिनिष्ठाधेयतानिरूपकीभूता या पर्वतादिनिष्ठाधिकरणता, तनिष्ठसाध्याभावमादायाव्याप्त्यापत्तेः।
(१) *न च* यन्निष्ठाधेयतानिरूपके हेत्वधिकरणताभिन्नत्वं विवक्ष्यते। तथा च नेयमापत्तिरिति वाच्यम् एवं सत्यधिकरणताभिन्न प्रमेयत्वादित्यादावतिव्याप्त्यापत्तेः। तत्र व्यभिचारनिरूपकाधिकरणस्याधिकरणत्वस्य हेत्वधिकरणताभिन्नत्वाभावेन साध्याभाववतो घटादेरेव तादृशहेतुनिष्ठाधेयतानिरूपकत्वात् ।
नूतनालोकः लक्षणघटकत्वादिति । यद्यपि समानाधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया लक्षणघटकत्वेऽपि नाव्याप्त्यवकाशः, उक्तरीत्या प्रतिबन्धकत्वाभावेऽपि तादृशासाध्याभावप्रमावृत्तित्वस्योपपादयितुं शक्यत्वात् , तथापीश्वरप्रमाया अपि सामान्यान्तर्गततया प्रतिबन्धकत्वाभावे तदृत्तित्वोपपादनं कथमपि न सम्भवतीत्याशयः। समूहालम्बनभिन्नत्वस्य प्रमाविशेषणत्वपक्षे त्वतिव्याप्तिरेव दोषो बोध्यः । न च कार्यानुकूल
आलोकप्रकाशः मूले यन्निरूपिताधिकरणतावदिति । ननु "न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः" इत्यभियुक्तोक्तेः कथमत्र मतुप्प्रत्ययः । न च कृष्णसर्पवद्विलमित्यादिप्रयोगादियमुक्तिः प्रायिकत्वाभिप्रायेति वाच्यम् ; कृष्णसर्पत्वस्य जातिविशेषरूपतया तदवच्छिन्नसम्बन्धस्य बहुव्रीहिणा कथमपि प्रतिपादनासंभवेन तत्प्रतिपादनाय तत्र मतुष्प्रयोग इति तदनुरोधेन प्रायिकत्वस्य कल्पयितुमशक्यत्वात् । न च • वृत्तिद्वयकल्पनस्याव्ययीभावादिस्थलेऽपि तुल्यतया "न कर्मधारयात्" इति कर्मधारयमात्रान्मत्वर्थीयप्रत्ययाभावप्रतिपादनपरेयमुक्ति भियुक्तानामिति वाच्यम् ; तत्र कर्मधारयपदस्याव्ययीभावाद्युपलक्षकतया असाङ्गत्याभावात् । तच्चागुणवत्वमिति साधर्म्यव्याख्यानावसरे गुणप्रकाशरहस्ये तद्दीधितिरहस्ये च स्फुटम् । अत एव साध्याभाववदवृत्तित्वलक्षणे साध्याभावववृत्तस्याभावः साध्याभाववद् वृत्तमिति भावक्तान्तवृत्तशब्दान्तेन सहाव्ययीभावसमासानन्तरं मत्वर्थीयेनिप्रत्ययनिष्पन्नान्नकारान्ताद्भावप्रत्ययस्वीकारे विवक्षितार्थलाभेऽपि मत्वर्थीयप्रत्ययानुपपत्त्या तथाविधसमासो मथुरानाथेन निराकृतः । अत एव चागुणवत्त्वमित्यत्र
For Private And Personal Use Only