SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे ७ अली ८ चेव' इतिवचनात् यस्य सः श्वली । अथवा 'शसयोरैक्यात् ' स्वः-स्वर्गः, तं यावत् ईयते-गच्छति क्विपि स्वरी, स चासौ ई-कामश्च स्वरीः, तस्य ‘कर्तुः कर्मकर' इत्युणादिवचनात् कर्तवः-कर्मकराः, अर्थात् कामिनः, तान् 'मीर हिंसाया' मिति मीनाति-तुर्यव्रतोच्चारणेन लक्षणया निषेधयति क्विपि स्वरीकर्तुमीः, ईदृशः ‘शसयो रेक्यात् ' स्वरोदेशनाध्वनिर्यस्य सः स्वरीकर्तुमीश्वरः ॥१४॥ श्रीचन्द्रप्रभं जिनं व्यावर्ण्य श्रीसुविधिजिनं वर्णयति-- परियहारम्भ ! मग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रोनपरमी श्वरी कर्तुमीश्वरः ।।१५।। व्याख्या-ग्रहशब्दो नवसङ्ख्यावाचकोऽस्ति । ततः परौभूमौ ग्रहो-नवमः तस्य सम्बो० हे परिग्रह-हे नवमजिन ! हे सुविधे ! अरं-अत्यर्थं भाति, तस्य सं० हे अरम्भ ! माइतिशब्दस्य नो-बन्धस्तत्र अस्तः-प्रक्षिप्तः अर इति शब्दो यत्र सः मग्नास्तारः इति व्युत्पत्त्या मकरः, तं यातिगच्छति डप्रत्यये सः मग्नास्तारयः-मकरगामी मकरलाञ्छन इत्यर्थः । तस्य सम्बो. हे मग्नास्तारय-हे मकरलाञ्छन ! पंपन्थानं, राति-ददाति डप्रत्यये सम्बो० हे पर ! 'मग्गदयाणं' इतिवचनात् । त्वं स्वेषां-आत्मीयानां, ई-लक्ष्मीः, अं-परब्रह्म ई च अंच यं, तत् कर्तुं ईश्वरोऽसि । त्वं किंवि० ? युः । ई-देहलक्ष्मीस्तया उ:-शङ्करः, गौरवर्णत्वात् स युः । पुनः किवि० ? १ स्व ई अं इति छेदः । For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy