________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा
[ ३१ रूप्या'ध्यारोपः, यत इदं सूक्तं भवेत् । "शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥"
[प्र० वा० ११४५] इति ६ ३१. न च साधादपरं सामान्यमस्ति, तस्य नित्यव्यापिस्वभावस्य क्वचिदप्यप्रतिवेदनात् । तथा स्याद्वादिसंमतः स्थिराकारः परमार्थ एव, चित्रज्ञानस्यैकस्य युगपदनेकाकारव्यापित्ववत् क्रमेणाप्येकस्यात्मादेरनेकाकारख्यापित्वसिद्धेः । तथैवोक्तं भट्टाकलङ्कदेवैः
"यथैकं भिन्नदेशार्थान् कुर्याद्वयाप्नोति वा सकृत् । तथैकं भिन्नकालार्थान् कुर्याद् व्याप्नोति वा क्रमात् ॥"
[लघी० श्लो० ३७ ] इति पूर्वोत्तरक्षणानां सर्वथानिरन्वयत्वे अर्थक्रियाविरोधाच्च । न हि क्षणक्षयकान्तपक्षे अर्थक्रियोपपन्ना; बहिरन्तरर्थानां निरन्वयविनाशे कार्यस्य निर्हेतुकत्वापत्तेर्जन्मविरोधसिधेः ।
३२. ननु पूर्वक्षणादुत्तरक्षणस्य प्रादुर्भावात् कुतो निष्कारणत्वं कार्यस्येति चेत् ; न; 'कार्यकालमपाप्नुवतः कारणत्वानुपपत्तेः, चिरतरातीतवत् ।
६३३. ननु कार्यकालं प्राप्नुवतोऽपि न कारणत्वम् , अन्यथा सर्वस्य समानक्षणवर्तिनस्तत्कारणत्वप्रसंगात् । ततो यदन्वयव्यतिरेकानुविधायि कार्य तदेव तस्य कारणम् "नाननुकत्वान्वयव्यतिरेकं कारणम् ।" [ ] इति वचनात् इति चेत् ; न; क्षणक्षयैकान्ते अन्वयव्यतिरेकस्यैवाघटनात् ।।
३४. न खलु समर्थे कारणे 'सत्यभावतः स्वयमेव पश्चादभवतस्तदन्वयव्यतिरेकानुविधानं नाम नित्यवत् । 'स्वदेशवत् स्वकाले सति समर्थे कारणे कार्य जायते नासति' इत्येतावता क्षणिकपक्षे अन्वयव्यतिरेकानुविधाने नित्येऽपि तत् स्यात् ; स्वकालेऽनाद्यनन्ते सति समर्थे नित्ये स्वसमये कार्यस्योत्पत्तेरसत्यनुत्पत्तेश्च प्रतीयमानत्वात् ।।
$३५ सर्वदा नित्ये समर्थ सति स्वकाल एव कार्य भवत् कथं तदन्वयव्यतिरेकानुविधायीति चेत् ; तर्हि कारणक्षणात् पूर्व पश्चाच्चानाद्यनन्ते तदभावेऽविशिष्टे क्वचिदेव तदभावसमये भवत् कार्य कथं तदनुविधायीति समानम् । नित्यस्य प्रतिक्षणमनेककार्यकारित्वे क्रमशोऽनेकस्वभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत् ; क्षणिकस्य कथमिति समः पर्यनुयोगः । स हि क्षणस्थितिरेकोऽपि भावोऽनेकस्वभावो विचित्रकार्यत्वात् नानार्थक्षणवत् ।।
३६. न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् । यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादि' स्वभावभेदनिबन्धनानि तथा क्षणस्थितेरेकस्मात् प्रदीपादिक्षणात् वर्तिकादाहतैलशोषादिविचित्रकार्याणि शक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते, अन्यथा रूपादेरपि नानात्वं न स्यात् ।
१. रूप्यम्-रजतम् । २. एकद्रव्यान्वयाभावे । ३. तुलना-अष्टश० अष्टस० पृ० ८७ । ४. अन्वयन्यतिरेकानुविधानम् । . ..
___ 1. स्याद्वादादि क०, ख०। 2. स्थिराकारोऽपि ग। 3. विधायि तदेवस्य-क०, ख० । 4. -मावतः क०। 5. -णक्षयात् क०, खः। 6. -भावे विशिप्टे क.। 7. रूपादे स्व-क०, ख०।
For Private And Personal Use Only