________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०]
बौद्धशासन-परीक्षा त्वापत्तेरिति, तदपि दूषणं परमाणूनामनन्यथै कान्तवादिनां' स्यान्न पुनः स्याद्वादिनाम् । यथैव हि नैयायिकादयः 'परमाणवो विविक्तावस्थावत् प्रचयावस्थायामपि परमाणुत्वं न त्यजन्ति' इति मन्यन्ते न तथा स्याद्वादिनो येन तद्दोषस्तेषामनुषज्येत; तैः परमाणूनां स्निग्धरूक्षाणामजघन्यगुणानां द्वयधिकादिगुणानां विजातीयानां सजातीयानां च 'सक्तुतोयवत् संतप्तजतुखण्डवत् कथंचित् स्कन्धाकारपरिणामात्मकस्य संबन्धस्याभ्युपगमात् ।
"लुक्खस्स लुक्खेण दुयाहिएण, णिद्धस्स णिद्धण दुवाहिएण। णिद्धस्स लुक्खेण हवेइ बन्धो, जहण्णवज्जे विसमे समे वा॥"
] इति वचनात् । २८. परैरप्येवमभ्युपगमः कर्तव्यः, अन्यथा अर्थक्रियाविरोधात् , अणूनामन्योन्यमसंबन्धतो जलधारणाहरणाद्यर्थक्रियाकारित्वानुपपत्तेः । रज्जुवंशदण्डादीनामेकदेशापकर्षणे तदन्याकर्षणे चासंबन्धवादिनो न स्यात् । अस्ति चैतत् सर्वम् , विकल्पप्रतिभासिनः प्रत्यक्षदृष्टत्वसिद्धेः अदृष्टे विकल्पायोगात् , अन्यथातिप्रसंगस्योक्तपायत्वात् । असंबद्धपरमाणुमात्रग्राहिप्रत्यक्षादिप्रमाणाभावस्य प्रतिपादितत्वाच्च । ततो जलाहरणाद्यर्थक्रियान्यथानुपपत्तेः संबन्धासिद्धः ।
$ २९. किं च, एवं वदतः चित्रज्ञाननिर्भासलवविशेषाणामेकदेशेन सर्वात्मनापि संबन्धासिद्धेः सकलनीलादिनिर्भासावयवव्याप्येकत्वं तत्र' न सिद्ध्येत् । तदवयवपृथक्त्वकल्पनायां चित्रैकज्ञानव्यवहारो मा भूत् ; पृथग्वर्णान्तरविषयानेकसंतानैकैकक्षणवत् । तत्र प्रत्यासत्तिविशेषः कथंचिदैक्यात्कोऽपरः स्यात ; देशप्रत्यासत्तेः शीतवातादिभिः व्यभिचारात् ; कालप्रत्यासत्तेरेकसमयवर्तिभिरशेषार्थैरनेकान्तात भावप्रत्यासत्तरेकार्थोदभूतानेकपुरुषज्ञानैरनैकान्तिकत्वात् , द्रव्यप्रत्यासत्तिरेव पारिशेप्यात् संभाव्यते । सा चैकद्रव्यतादात्म्यलक्षणत्वात् प्रत्यासत्तिविशेष इति कथंचिदैक्यमेवैकत्वव्यवहारनिबन्धनं चित्रज्ञानस्य ।
३०. तदेवं प्रमाणप्रसिद्धचित्रज्ञानवत् सूक्ष्मस्थूलात्मनि जात्यन्तरे स्याद्वादीष्टवस्तुनि वृत्तिदोषाद्यखिलदोषो नावकाशं लभते । अत्रान्यत्र च सर्वत्र विरोधादिदूषणं चित्रज्ञानमेवापहस्तयतीति किं नश्चिन्तया । ततः स्याद्वादीनां संमतः स्थूलाकारः परमार्थ एव सिद्धः । एतेन तदभिमतः साधारणाकारोऽपि परमार्थतया सिद्धः स्याद्वादिसंमतस्य सदृशपरिणामलक्षणस्य सामान्यस्याप्रतिक्षेपार्हत्वात् , अन्यथा शुक्तिकादे रजताद्यपेक्षया साधर्म्य दर्शनस्याभावात् , कथं तन्निबन्धनस्तंत्र
१. परमाणवः परमाणव एव न तु अन्यरूपा अवयविरूपा वा भवन्ति इत्येकान्तवादिनाम् । २. रूक्षस्य रूक्षेण द्वयाधिकेन, स्निग्धस्थ स्निग्धेन द्वयाधिकेन । स्निग्धस्य रूक्षेण भवति बन्धः, जघन्यवज्य विषमे समे वा ॥ उद्धृतम्-सर्वा० पृ० ३०७ । ३. बौद्धैरपि । ४. कथंचित् नित्यानित्यात्मनि ।
1. -मनन्यतैकान्त-10। 2. जघन्यगुणानां विजातीयानां च सनु क०, ख० । 3. लक्ख क०, ख० । 4. उवेह क०, ख० । 5. -पादित्वाच्च क०, खः। 6. संबन्धः सिद्धः। 7. -वयव्याप्येतत्वं तत्र क०, ख० । 8. वावकाशं क०, ख० । 9. वादि स- ग.। 10. साधर्म-क०, ख० ।
For Private And Personal Use Only