SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ ४३] बौद्धशासन-परीक्षा ३७ ननु च शक्तिमतोऽर्थान्तरानर्थान्तरपक्षयोः शक्तीनामघटनात्तासां परमार्थसत्त्वाभावः: तर्हि रूपादीनामपि प्रतीतिसिद्धद्रव्यादर्थान्तरानान्तरविकल्पयोरसंभवात् परमार्थसत्त्वाभावः स्यात् । स्याद्वादिभिश्चित्रज्ञानवत् जात्यन्तरस्य शक्तिमतोऽर्थस्योपगमाच्च नोक्तदोषानुषङ्गः ।। ६३८. अथ प्रत्यक्षबुद्धौ प्रतिभासमानत्वाद्र्पादयः परमार्थसन्तो न पुनस्तच्छक्तयस्तासामनुमानबुद्धौ प्रतिभासमानत्वात् ; इत्यप्ययुक्तम् । क्षणक्षयस्वर्गप्रापणशक्त्यादीनामपरमार्थसत्त्वप्रसंगात् । ततो यथा क्षणिकस्य युगपदनेककार्यकारित्वेऽप्येकत्वाविरोधस्तथा अक्षणिकस्य क्रमशोऽनेककार्यकारित्वेऽपीत्यनवद्यं स्थिराकारोऽपि परमार्थ इति । । ३९. तदेवं सकलबाधकाभावादप्रतिक्षेपार्हाणामाहताभिमतानां स्थिरस्थूलसाधारणाकाराणां परमार्थत्वसिद्धेः अभ्रान्तेन तग्राहिप्रत्यक्षेण स्वलक्षणलक्षणतत्त्वस्य विरुद्धत्वं सिद्धयत्येव । ४०. ननु नैष दोषः, सौगताभिमतस्वलक्षणतत्वस्य अवाच्यत्वादिति चेत् ; तदसंगतम् ; अवाच्यशब्देन स्वलक्षणतत्त्वस्य वाच्यत्वात् स्ववचनेनैव स्वप्रतिज्ञा हानेर्दर्शनात् । ४१. नन्ववाच्य शब्देनापि न स्वलक्षणस्वरूपमुच्यते तेनारोपितसामान्याकारस्यैवाभिधानादिति चेत्, व्याहतमेतत् । सामान्याख्यपररूपवाचिना अवाच्यशब्देन स्वलक्षणस्वरूपाभिधानस्य विरुद्धत्वात् नीलशब्देन पीताभिधानवत् । तदुक्तं युक्त्यनुशासने स्वामिभिः "अवाच्यमित्यत्र" च वाच्यभावादवाच्यमेवेत्ययथाप्रतिज्ञम् । स्वरूपतश्चेत् पररूपवाचि स्वरूपवाचोति वचो विरुद्धम्।" [युक्त्यनु० श्लो० २९ ] इति $ ४२. ततो नावाच्यतैकान्तः श्रेयानिति कथमपि प्रत्यक्षविरोधो दुःशक: परिहर्तुम् । तस्मात् सुव्यवस्थितेयं प्रतिज्ञा दृष्टविरुद्धं शाक्यशासनमिति । $ ४३. तथा ताथागतशासनमिष्टबिरुद्धम् । तदभिमतक्षणक्षयकान्त विरुद्धस्य आत्मादीनां कथंचिन्नित्यत्वस्यानुमानेन साधनात् । तथा हि-यत् सत् तत्सर्व कथंचिन्नित्यम् , सर्वथा क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् सत्त्वानुपपत्तेः' इति । अत्र न तावद्धेतोरनैकान्तिकत्वम् ; सर्वथा नित्यत्वे सत्त्वस्याभावात् , सर्वथा क्षणिकत्ववत् । तदभावश्च क्रमाक्रमानुपपत्तेः । तदनुपपत्तिश्च पूर्वापरस्वभावत्यागोपादानान्वितरूपाभावात्; सकृदनेकशक्त्यात्मकत्वाभावाच्च । न हि कटस्थे पूर्वोत्तरस्वभावत्यागोपादाने स्नः; क्षणिके चान्वितं रूपमस्ति यतः क्रमः 'कालकृतो देशकृतो वा स्यात् । नापि युगपदनेकस्वभावत्वं यतो यौगपद्यम्, कौटस्थ्यविरोधात्. सर्वथैकरूपत्वात् कूटस्थस्य । “एकरूपतया तु यस्त्रिकालव्यापी सः कूटस्थः" [ इत्यभिधानात्, निरन्वयक्षणिकत्वव्याघाताच्च, तथा क्रमाक्रमानेकान्तात्मकस्यैव सिद्धः। सहकारिक्रमाक्रमापेक्षया 'तत्र क्रमयोगपद्यकल्पनापि न साधीयसी; स्वयं तदपेक्षाक्रमेतरस्वभावत्वाभावे तदनुपपत्तेः । १. भेदाभेदपक्षयोः । २. शब्देन । ३. बौद्धे न कृता यत् शाक्यशासनं दृष्टाविरुद्धमिति । ४. नित्ये । ५. सहकार्यपेक्षा स्वयं तत्स्वभावस्यैव संभाव्यते । __1. -टनात्तानों पर-क०। 2. -लपाधारणाकारणांक० । 3. सिद्धिः क०, खः। 4. -नैव प्रतिज्ञा क०, ख०। 5. नन्वाच्य- क०, खः। 6. -मित्यस्य ग०। 7. क्रम क०, ग० । 8. -तया तु यः कालव्यापि सकूटस्थः क०, ख.। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy