________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[विज्ञानाद्वैतशासन-परीक्षा ]
तथा विज्ञानाद्वैतशासनं दृष्टेष्टविरुद्धम्,
अन्यच्च,
[ पूर्वपक्ष: ]
$ १. तथा हि- तावदिदं खलु विज्ञानाद्वैतिनामिष्टम्, अन्तरङ्गस्य स्वसंविदितज्ञानस्यैव वस्तुता न तु बहिरङ्गस्यार्थस्य, जडस्य प्रतिभासायोगात् ' वेद्यवेदकलक्षणस्य परपरिकल्पितस्य व्यभिचारित्वात् ।
1
$ २. [ तत्र' ] ताबत्सौत्रान्तिकपरिकल्पिततज्जन्मताद्रूप्यतदध्यवसायाः न प्रत्येकं वेद्यवेदकलक्षणम् ; चक्षुषा' समानार्थसमनन्तर वेदनेन शुक्तिकायां रजताध्यवसायेन च व्यभिचारात् । सह वा समानार्थसमनन्तरज्ञानेन, कामलाद्युपहतचक्षुषः शुक्ले शङ्ख 'पीताकारज्ञानसमनन्तरज्ञानेन च व्यभिचारात् ।
$ ३ . योगाङ्गीकृतं "कार्यनिमित्तकारणत्वमपि न तल्लक्षणम्, चक्षुषानेकान्तात् । तथा अन्यपरिकल्पितकार्यकारणभावाख्यप्रभवयोग्यतादिकमपि न तल्लक्षणम् ; तेनैव व्यभिचारात्" । ततः कस्यचिदपि ग्राह्यग्राहकलक्षणस्यायोगात् सर्वं ग्राह्यग्राहकाकारज्ञानं भ्रान्तमेव । तथा प्रयोगः - यद्ग्राह्यग्राहकाकारं तत्सर्वं भ्रान्तम्, यथा स्वप्रेन्द्रजालादिज्ञानम्, तथा च प्रत्यक्षादिकमिति । न हि भ्रान्त प्रत्यक्षादिकं बहिरर्थस्य व्यवस्थापकम्, स्वप्न प्रत्यक्षादेरपि अर्थव्यवस्थापकत्वप्रसंगात् । एवं युक्त्या अनुपपद्यमाना बहिरर्था दृष्टा अपि न श्रद्धेयाः,
Acharya Shri Kailassagarsuri Gyanmandir
"युक्त्या यन घटामुपैति तदहं दृष्ट्रापि न श्रदधें । " [
] इति वचनात् । ४. बहिरर्थानामेवमसंभवात् संवित्तिरेव खण्डशः प्रतिभासमाना सकलवेद्यवेदक व्यवहाराय कल्प्यते । तदुक्तम्
" नावनिर्न सलिलं न पावको न मरुन्न गगनें न चापरम् । विश्वनाटक विलाससाक्षिणी संविदेव परितो विजृम्भते ॥" Ī
] इति
] इति
१. चक्षुषा घटज्ञानं जायते न तु तत् चक्षुग्रहकम् । २. समानार्थे यत् पूर्वज्ञानादुत्पन्नम् अनन्तरज्ञानं तत् पूर्वज्ञानादुत्पन्नम् अथ च पूर्वज्ञानाकारं तथापि नोत्तरं ज्ञानं पूर्व जानाति ज्ञानं ज्ञानस्य न नियामकमिति सिद्धान्तात् । ३. शुक्तिकार्या रजतमितिज्ञानं रजताध्यवसायि, न च रजते प्रमाणम् । ४. शुक्ले शते जायमानं पीताकारज्ञानं शङ्खादुत्पन्नं शङ्खाकारमथ च शङ्खाध्यवसायि न च प्रमाणम् । ५. कार्य ज्ञानं तनिमित्तकारणं भवति वेद्यम् । ६ चक्षुरादिना । ७ उद्घृतमिदम् - अ
-अष्टश० अष्टसह ०
पृ० २३४ । 1. भास योग० ख० । 2. क०, ग० प्रतौ ' तत्र' पदं नास्ति । 3. पिताकार० क० । 4. सकलवेदक० ग० । 5. धीनीलपीतसु० ख०, ग० । 6. समा
क० ।
"एक संविदि विभाति भेदधीन्नीलपीत 'सुखदुःखरूपिणी । निम्ननाभिरियमुन्नतस्तनी स्त्रोति चित्रफलके समे यथा ॥ " [
For Private And Personal Use Only