SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org [ उत्तरपक्षः ] [ ५ $ ५ तदेवं बहिरर्थाख्यद्वितीय रहितत्वादद्वैतमनुभवसिद्धविज्ञानमात्रमेव व्यवतिष्ठत इति । सत्यशासन-परीक्षा Acharya Shri Kailassagarsuri Gyanmandir $ ६. तदेतत् विज्ञानाद्वैतं प्रत्यक्षविरुद्धम् विज्ञानरूप अन्तरर्थवद् बहिरर्थस्यापि नीलादेः परमार्थस्य प्रत्यक्षेणोपलक्षणात् । भ्रान्तं तत्प्रत्यक्ष मिति चेत्; न बाधकाभावात् । उक्त एव वेद्यवेदकलक्षणाभावो बाधक इति चेत्, तावदेवं वदता योगाचारेण विज्ञानानां क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमनुमानेनैव व्यवस्थापनीयम्, स्वसंवेदनात्तदसिद्धेः; संविदां क्षणिकत्वेनाऽनन्यवेद्यत्वेन नानासंतानत्वेन नित्यत्वेन च सर्ववेद्यत्वेनैकत्वेन परमब्रह्मणा ज्ञानवादिना इव" स्वसंवेदनाभावात् । अन्यथा ततो ब्रह्मसिद्धेरपि दुर्निवारत्वात् । ततः क्षणिकत्वादिव्यवस्थापनमनुमानेनैवास्तु । तथा चक्षणिकत्वाद कथंचिद्वेद्यलक्षणं यदि व्यवतिष्ठेत् तदा प्रकृतसंविदां क्षणिकत्वादिसाधनं * लैङ्गिकज्ञानेन कृतं स्यान्नान्यथा । $ ७. न चानुक्तदोषं वेद्यलक्षणमस्ति, विज्ञानवादिना तज्जन्मादेरनैकान्तिकत्वदोषवचनात् । संवित्क्षणिकत्वादावनुमानवेदनस्य तत्संभवे नान्यत्र बहिरर्थे तदसंभवोऽभिधेयः सर्वथा विशेषा भावात् । ८. अत्रायं प्रयोगः - विमत्यधिकरणभावापन्नं ज्ञानं साक्षात्परम्परया वा स्वरूपव्यतिरिक्तार्थालम्बनम् ; ग्राह्यग्राहकाकारत्वात् संतानान्तराद्यनुमानवत् । विप्लवज्ञानग्राह्यग्राहकाकारित्वेन व्यभिचार इति चेत्; न; संतानान्तरादिसाधनस्यापि व्यभिचारप्रसंगात् । न हि व्यापारव्याहारभे (द) निर्मासो विप्लुतो नास्ति, येनाव्यभिचारिहेतुः स्यात् । यदि जाग्रदशाभाविसत्याभिमतव्यापारादिहेतुख्यभिचारी स्यात् 1 तर्हि 11 तथाविधग्राह्यग्राहका कारकत्व ' ' हेतुरप्यव्यभिचारी भवेत्, तथैव विवक्षितत्वात् । 0 3 ९. अथ सत्याभिमतज्ञानेन वासनाभेदो गम्यत इति चेत्; तदन्यत्रापि समानम् । यथैव हि जाग्रदशायां बहिरर्थवासनाया दृढतमत्वात् तदाकारज्ञानस्य सत्यत्वाभिमानः; स्वप्नादिदशायां तु तदवासनाया दृढत्वाभावात्तद्वेदनस्यासत्यत्वाभिमानो लोकस्य न परमार्थतो बहिरर्थः सिद्ध्यतीति वासनाभेदो गम्यते, तथानुपप्लवदशायां संतानान्तरज्ञानस्य वासनाया दृढतमत्वात् सत्यताभिमानो, अन्यत्र तददार्थ्यादसत्यताव्यवहार इति वासनाभेदो गम्यताम्, न तु संतानान्तरम् । तदनभ्युपगमे स्वसंतानक्षणक्षयादिसिद्धिः कथमभ्युपगम्यते ततः सुदूरमपि गत्वा किंचिद्वेदनं स्वष्टतत्त्वावलम्बनमेषितव्यम् । तस्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो 15 वचनं तत्त्वज्ञानं च प्रतिरुणद्धि इति न किंचिदेतत् । तदेवं वेद्यवेदा कारत्वसाधनं ' " बहिरर्थवेदनस्य स्वरूपव्यतिरिक्तालम्बनत्वं साधयतीति बाधकबाधनात् " न बाघको वेद्यवेदकलक्षणाभावः । 4 7 १. बहिरर्थग्राहि । २. स्वसंवेदनात् । ३. वेद्यवेदकभावसंभवे । ४ सन्तानान्तराभ्युपगमे । 1. - नैकैत्वेन क० । 2. - णा इव क० । 3. करवव्य० क० | 4. - करवसा० क० । 5. – दौ कथंचिद् वेदनस्य ख० । 6. - संवोऽभि० ग० । 7. -कारखेन ख०, कारकत्वेन ग० । 8. – ग० प्रतौ 'न' पदं नास्ति । 9 - हारभेदो नि० क०, ख० । 10. रव्यभिचारित्वात्तहिं क० 11 तथाविद् क० | 12. कारत्व० ख० । 13. वचनं क० | 16. कारत्व क० वासना गम्यते क० 14 तत्वालम्बन ख०, ग० । 15. संविधानो वा 17. - तीति बाधनात् ख० । For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy