SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४ देवेन्द्रसूरिविरचितस्वोपज्ञटीको पेतः रकूर्मरथवरस्थालांशुकाष्टापदाङ्कुशसुप्रतिष्ठ कमयूर श्रीदामाभिषेक तोरणमेदिनीजलधिवरभवनादर्शपचैतगजवृषभ सिंह चामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः खभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या मार्दवार्जवसम्पन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्वकरभगोमहि - षादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारिणो ज्वरादिरोगयक्षभूत पिशाचादिग्रहमारिव्य - सनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः । तेषां पृष्ठकरण्डकानि चतुःषष्टिसङ्ख्याकानि, चतुर्थातिक्रमे चाहारग्रहणम्, आहारोऽपि च न शाल्यादिधान्यनिष्पन्नः किन्तु पृथिवीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च । तथाहि — जायन्ते खलु तत्रापि विस्रसात एव शालिगोधूममुद्गमाषादीनि धान्यानि परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथिवी सा शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमफलानामाखादः स चक्रवर्तिभोजनादप्यधिकगुणः । यदुक्तम् — 'तेसिं णं भंते! पुप्फफलाणं केरिसए आसाए पन्नत्ते ? गोयमा ! से जहानामए रणो चाउरंतचक्कवट्टिस्स कलाणे भोयणजाए सयसहस्सनिप्फने वनोववेए गंधोववेए रसोववे फासोववेए आसाय णिज्जे विस्सायणिज्जे दप्पणिज्जे मयणिजे विहणिज्जे सबिंदियगाय पल्हायणिज्जे आसाएणं पन्नत्ते, इत्तो इट्टतराए चेव पन्नत्ते । ( जम्बू ० पत्र ११८ - १ ) ततः पृथिवी कल्पपादपपुष्पफलानि च तेषामाहारः । तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कल्पद्रुमास्तेषु यथासुखमवतिष्ठन्ते । न च तत्र क्षेत्रे दंशमशकयूकामकुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते । येऽपि जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रभावरहितत्वात् । मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तत् पुनर्यु - गलमेकोनाशीतिदिनानि पालयन्ति । तेषां शरीरोच्छ्रयोऽष्टौ धनुःशतानि, पल्योपमासङ्ख्येयभाप्रमाणमायुः, स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति । मरणं च तेषां जृम्भिकाकाशक्षुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति । 1 अत्र गाथा: हिमेगिरिनिग्गयपुत्रावरदाढा विदिसि संठिया लवणे । जोतिसए गंतुं, तिन्नि सए वित्थराssयामा || वेइयवणसंडजुया, चउ अंतरदीव तेसि नामाई । एगोरुग १ आभासिय २, वेसाणियनाम ३ नंगूली ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ गाथा १ तेषां भगवन् ! पुष्पफलानां कीदृश आखादः प्रज्ञप्तः ? गौतम ! स यथानामकः राज्ञश्चातुरन्तचक्रवर्तिनः कल्याणं भोजनजातं शतसहस्रनिष्पन्नं वर्णोपपेतं गन्धोपपेतं रसोपपेतं स्पर्शोपपेतं आखादनीयं विखादनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रह्लादनीयमाखादेन प्रज्ञप्तम् इत इष्टतरश्चैव प्रज्ञप्तः ॥ २ हिमगि रिनिर्गत पूर्वापरदाढा विदिधि संस्थिता लवणे | योजनत्रिशतं गला त्रीणि शतानि विस्तराऽऽयामाः ॥ वेदिका - बनखण्डयुताश्चत्वार अन्तरद्वीपास्तेषां नामानि । एकोरुकः १ आभासिकः २ वैषाणिकनामा ३ नाङ्गोलिः ४ ॥
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy