________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१-२]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः। मुदितान्यपि मित्राणि, सुक्रुद्धाश्चैव शत्रवः ।
न हीमे तत् करिष्यन्ति, यन्न पूर्वं कृतं त्वया ॥ बौद्धा अप्याहुः
इत एकनवतौ कल्पे, शक्त्या में पुरुषो हतः ।
तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ।। तदपि च कर्म पुद्गलखरूपं प्रतिपत्तव्यम् , नामूर्तम् , अमूर्तत्वे हि कर्मणः सकाशादात्मनामनुग्रहोपघातासम्भवात् , आकाशादिवत् । यदाह
अन्ने उ अमुत्तं चिय, कम्मं मन्नंति वासणारूवं । तं तु न जुज्जइ तत्तो, उवघायाणुग्गहाभावा ॥
नागासं उवघायं, अणुग्गहं वा वि कुणइ सत्ताणं ॥ इत्यादि । तच्च कर्म प्रवाहतोऽनादि, "अणाइयं तं पवाहेण" इति वचनात् । यदि प्रवाहापेक्षयाऽपि सादि स्यात् तदा जीवानां पूर्व कर्मवियुक्तत्वमासीत् पश्चादकर्मकस्य जीवस्य कर्मणा सह संयोगः सञ्जातः, एवं सति मुक्तानामपि कर्मयोगः स्यात् , अकर्मकत्वाविशेषात् , ततश्च मुक्ता अमुक्ताः स्युः, न चेदमिष्टम् , तस्मादनादिर्जीवस्य कर्मणा सह संयोगः । नन्वनादिसंयोगे कथं वियोगो जीवस्य कर्मणा सह ? उच्यते-अनादिसंयोगेऽपि वियोगो दृष्टः काञ्चनोपलवत् । तथाहि-काञ्चनोपलानां यद्यप्यनादिसंयोगस्तथापि तथाविधसामग्रीसद्भावे धमनादिना किट्टिवियोगो दृष्टः; एवं जीवस्यापि ज्ञानदर्शनचारित्रध्यानानलादिनाऽनादिकर्मणा सह वियोगः सिद्धो भवति । यदाह भगवान् भाष्यसुधाम्भोनिधिः
जैर्ह इह य कंचणोवलसंयोगोऽणाइसंतइगओ वि।
वुच्छिज्जइ सोवायं, तह जोगो जीवकम्माणं ॥ (विशे० गा०१८१९) इत्यलं विस्तरेण ॥ १॥ अथ कतिभेदं कर्म ? इत्याशझ्याह
पयइठिइरसपएसा, तं चउहा मोयगस्स दिटुंता ।
मूलपगइट्ट उत्तरपगईअडवन्नसयभेयं ॥२॥ तत् कर्म पूर्वव्यावर्णितशब्दार्थं 'चतुर्धा' चतुष्प्रकारं चतुर्भदं भवतीति शेषः । कथम् ? इत्याह-"पयइठिइरसपएस" त्ति, इह “गम्ययपः कर्माधारे" (सिद्धहेम० २-२-७४) इति पञ्चमी, यथा प्रासादात् प्रेक्षत इति । ततश्च प्रकृतिस्थितिरसप्रदेशानाश्रित्य, प्रकृतिबन्धस्थितिबन्धरसबन्धप्रदेशबन्धतयेत्यर्थः । तत्र स्थित्यनुभागप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः, अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः, कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभागबन्धो रसबन्ध इत्यर्थः, कर्मपुद्गलानामेव यद् ग्रहणं स्थितिरसनिरपेक्षदलिकसङ्ख्याप्राधान्येनैव करोति स प्रदेशबन्धः । उक्तं च
१ अन्ये तु अमूर्तमेव कर्म मन्यन्ते वासनारूपम् । तत् तु न युज्यते तत उपघातानुग्रहामावर ॥ नाकाशमुपघातमनुग्रहं वाऽपि कुरुते सत्त्वानाम् ॥ २ अनादिकं तत् प्रवाहेण ॥ ३ यथेह च काञ्चनो- . पलसंयोगोऽनादिसन्ततिगतोऽपि । व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः ॥ ४ °ह व इह ख० ॥
For Private and Personal Use Only