SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (गाथा १९८ देवेन्द्रसूरिविरचितखोपाटीकोपैतः शमिकमावभेदः प्राप्यते, औपशमिकचारित्रलक्षणस्त्वनिवृत्तेरारभ्योपशान्तं यावत् प्राप्यते । क्षायिकभावभेदश्च क्षायिकसम्यक्त्वरूपोऽविरतादारभ्योपशान्तं यावत् प्राप्यते, क्षीणमोहे च सायिकं सम्यक्त्वं चारित्रं च प्राप्यते, सयोगिकेवल्ययोगिकेवलिनोस्तु नवापि क्षायिकभावाः प्राप्यन्ते। __पारिणामिकभावभेदा मिथ्यादृष्टौ त्रयोऽपि, साखादनादारभ्य च क्षीणमोहं यावदभव्यत्ववर्जी द्वौ भवतः, सयोगिकेवल्ययोगिकेवलिनोस्तु जीवत्वमेवेति, भव्यत्वस्य च प्रत्यासन्नसिद्धावस्थायामभावादधुनाऽपि तदपगतप्रायत्वादिना केनचित् कारणेन शास्त्रान्तरेषु नोक्तमिति नास्माभिरप्यत्रोच्यते । __ यस्य भावस्य भेदा यस्मिन् गुणस्थानके यावन्त उक्तास्तेषां सम्भविभावभेदानामेकत्र मीलने सति तावद्भेदनिष्पन्नः षष्ठः सान्निपातिकभावभेदस्तस्मिन् गुणस्थानके भवति । यथा- मिथ्यादृष्टावौदयिकभावभेदा एकविंशतिः, क्षायोपशमिकभावभेदा दश, पारिणामिकभावभेदास्त्रयः, सर्वे भेदाश्चतुस्त्रिंशत् । एवं साखादनादिष्वपि सम्भविभावभेदमीलने तावद्भेदनिष्पन्नः षष्ठः सान्निपातिकभावभेदो वाच्यः । एतदर्थसङ्ग्राहिण्यश्चैता गाथा यथा "पण अंतराय अन्नाण तिन्नि अञ्चक्खुचक्खु दस एए। मिच्छे साणे य हवंति मीसए अंतराय पण ॥ नाणतिग दसणतिगं, मीसगसम्मं च बारस हवंति । एवं च अविरयम्मि वि, नवरि तहिं दसणं सुद्धं ॥ देसे य देसविरई, तेरसमा तह पमत्तअपमत्ते । मणपज्जवपक्खेवा, चउदस अप्पुवकरणे उ॥ वेयगसम्मेण विणा, तेरस जा सुहुमसंपराउ ति । ते चिय उवसमखीणे, चरित्तविरहेण बारस उ॥ खाओक्समिगभावाण कित्तणा गुणपए पडुच्च कया । उदइयभावे इण्हि, ते चेव पडुच्च दंसेमि ॥ चउगइयाई इगवीस मिच्छि साणे य हुंति वीसं च । मिच्छेण विणा मीसे, इगुणीसमनाणविरहेण ॥ एमेव अविस्यम्मी, सुरनारयगइविओगओ देसे । सत्तरस हुंति ते चिय, तिरिगइअस्संजमाभावा ॥ पश्चान्तरायाः अज्ञानानि त्रीणि अचक्षुश्चक्षुः दश एते । मिथ्याले सासादने च भवन्ति मिश्रके अन्त. स्याः पञ्चकानत्रिकं दर्शनत्रिकं मिश्रसम्यक्त्वं च द्वादश भवन्ति । एवं चाविरतेऽपि नवरं तत्र दर्शनं झुद्धम् । देशे च देशविरतिस्त्रयोदशी तथा प्रमत्ताप्रमत्तयोः । मनःपर्यवप्रक्षेपात् चतुर्दश अपूर्वकरणे तु ॥ वेदकसम्यकलेन विना त्रयोदश यावत् सूक्ष्मसम्पराय इति । त एव उपशान्तक्षीणयोः चारित्रविरहेण द्वादश तु॥ क्षायोपशमिकभावानां कीर्तना गुणपदानि प्रतीत्य कृता । औदयिकभावे इदानी तान्येव प्रतीत्य दर्शयामि ॥ चतुर्गत्यादिका एकविंशतिर्मिथ्याले सासादने च भवन्ति विंशतिश्च । मिथ्याखेन विना मिश्रे एकोनविंशतिरक्षा जविरहेण एवमेवानिरते सुरनारकपतिविन्योयतो देशे। ससदश भवन्ति त एव निर्मग्गल्यसंसथाभावात् ।। For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy