________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३७ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
चारि यत्तट्ठा, हुंति सया कोडिकोडीणं ॥ चोयालं लक्खाई, कोडीणं सत्त चैव य सहस्सा । तिन्नि य सया य सर्यरी, कोडीणं हुंति नायबा ॥ पंचाणउई लक्खा, एगावन्नं भवे सहस्साइं । छस्सोलसुत्तर सया, एसो छट्टो हवइ वग्गो || ( अनु० चू० पत्र ७० ) [ अङ्कतोऽपि दर्श्यते--] १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तते । सा चेयम् – ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ । अयं च राशिः कोटीकोट्यादिप्रकारेण केनाऽप्यभिधातुं न शक्यतेऽतः पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थ गाथाद्वयम्
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१६९
छैग तिन्नि तिन्नि सुन्नं, पंचैव य नव य तिन्नि चत्तारि । पंचैव तिन्नि नव पंच, सत्त तिन्नेव तिन्नेव ॥
उ छ हो चर इक्को, पण दो छक्किक्कगो य अट्ठेव ।
दो दो नव सत्तेव ये, अंकट्टाणा पराहुत्ता || ( अनु० चू० पत्र० ७०) तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुप्या वर्तन्ते । उक्तं चानुयोगद्वारेषु—–
जैहन्नपए [संखेज्जा] संखिज्जाओ कोडाकोडाकोडीओ । ( पत्र २०५-२ ) तदेवं जधन्यपदिनो मनुष्याः, उत्कृष्टपदिनस्त्वसङ्ख्याताः । उक्तं चानुयोगद्वारसूत्रे - उकोस असंखिज्जा असंखिज्जाहिं उसप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खिराओं उक्कोसपर रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरइ, असंखेज्जाहिं अवसप्पिणीहिं उस्सप्पिणीहिं कालओ, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं ॥ ( पत्र २०५-२ )
अस्येयमक्षरगमनिका—उत्कृष्टपदे मनुष्या अस ये योत्सर्पिण्यवसर्पिणीसमयराशितुल्याः । क्षेत्रतस्त्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते मनुष्यरूपैरेका नभः प्रदेशश्रेणिरपह्रियते । कियता कालेन ? इत्याह—असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः । कियता क्षेत्रखण्डापहारेण ? इत्याह-- "अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं” ति श्रेणेरङ्गुलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत् प्रथमं वर्गमूलं तत् तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्ड मेंकैकं रूपमपहरति । अयमर्थः -- इह किलाङ्गुलप्रमाणक्षेत्रे नमः प्रदेशराशिः सद्भाक्तोऽसङ्घयेयचत्वारि च सप्तषष्टिर्भवन्ति शतानि कोटिकोटीनाम् ॥ चतुश्चत्वारिंशद् लक्षाः कोटीनां सप्त एव च सहस्राणि । त्रीणि च शतानि च सप्ततिः कोटीनां भवन्ति ज्ञातव्यानि ॥ पञ्चनवतिर्लक्षा एकपञ्चाशद् भवन्ति सहस्राणि । षट् षोडशोत्तराणि शतानि एष षष्टो भवति वर्गः ॥ १ सत्तरि अनुयोगद्वार चूर्णिलघुवृत्त्योः ॥
१ षट् त्रीणि त्रीणि शून्यं पञ्चैव च नव च त्रीणि चत्वारि । पञ्चैव त्रीणि नय पञ्च सप्त त्रीण्येव त्रीण्येव ॥ चत्वारि षट् द्वे चत्वारि एकः पञ्च द्वे षट् एककश्च अप्रैव । द्वे द्वे नव सप्तैव च अङ्कस्थानानि परामुखानि ॥ २ य ठाणाइं उवरिहुत्ताई ॥ अनुयोगद्वारचूर्णो ॥ ३ जघन्यपदे सङ्ख्याताः सङ्ख्याः कोटिकोटिकोटयः ॥
क० २२