SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा तत्वात् । 'शेषस्थानेषु' सुरगतौ तिर्यग्गतौ मनुष्यगतौ पञ्चेन्द्रियत्रसकाययोगत्रयवेदत्रयकषायच - तुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकदेशविरताविरतचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशमिकौपशमिकसाखादनमिश्चमिथ्यात्वसंश्याहारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः । उक्ता मार्गणास्थानेषु लेश्या: । इदानीं मार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वं निरूपयिषुराह—'नरनिरय' इत्यादि । इह यथासङ्ख्येन योजना कर्तव्या । सा चैवम् — नरा निरयदेव - तिर्यग्योनिकेभ्यः सकाशात् स्तोकाः । यत इह द्विविधा नराः -- वान्तपित्तादिजन्मानः सम्मूर्छजाः, स्त्रीगर्भोत्पन्नाः गर्भजाश्च । तत्राद्याः कदाचिद् न भवन्त्येव, जघन्यतः समयस्य उत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात् । यदाह सन्देहसन्दोहशैलशृङ्गभङ्गदम्भोलिर्भगवान् जिनभद्रगणिक्षमाश्रमणः -- बारस मुहुत्त गब्भे, उक्कोस समुच्छिमेसु चउवीसं । उक्कोस विरहकालो, दोसु वि य जहन्नओ समओ ॥ ( बृ० सं० पत्र १३० - १ ) उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवाद् यदा भवान् एको द्वौ त्रयो वा, उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्या भवन्ति नासङ्ख्येयाः, तत्र सत्येयकस्य सङ्ख्यात भेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकम् अतो विशेषत इदं प्ररूप्यते—- इह षष्ठवर्गः पञ्चमवर्गेण यदा गुणितो भवति तदा गर्भजमनुष्यसङ्ख्या भवति । अथ कोऽयं षष्ठः (ग्रन्थानम् - १५०० ) वर्गः ? कश्च पञ्चमः ! इत्येतदुच्यतेविवक्षितः कश्चिद् राशिस्तेनैव राशिना यत्र गुण्यते स तावद् वर्गः । तत्रैकस्य वर्ग एव न भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोस्तु वर्गश्चत्वारो भवन्ति, एष प्रथमो वर्गः ४ । चतुर्णां वर्गः षोडशेति द्वितीयो वर्गः १६ । षोडशानां वर्गों द्वे शते षट्पञ्चाशदधिके तृतीयो वर्गः २५६ । अस्य राशेर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट् त्रिंशदधिकानि चतुर्थो वर्गः ६५५३६ । अस्य राशेर्वर्गः सार्धगाथया प्रोच्यते चैत्तारि य कोडिसया, अउणत्तीसं च हुंति कोडीओ । अउणावन्नं लक्खा, सत्तहिं चैव य सहस्सा ॥ दो य सया छन्नया, पंचमवगो इमो विणिछिट्टो । ( अनु० चू० पत्र ७० ) अङ्कस्थापना--४२९४९६७२९६ । अस्यापि राशेर्वग गाथात्रयेण प्रतिपाद्यते लक्ख कोडाकोडी, चउरासीइं भवे सहस्साइं । १ सा चैक्ये द्वन्द्वमेययोरिति 'एकचत्वारिंशति' इति भाव्यम्, भविष्यत्यपि, तथापि लेखकेन पण्डितंमन्येन वा केनाप्येतद् अङ्कितं लक्ष्यते ॥ २ द्वादश मुहूर्ता गर्भजेषु सम्मूच्छिमेषु चतुर्विंशतिः । उत्कर्षतो विरहकालः द्वयोरपि च जघन्यतः समयः ॥ ३ चत्वारि च कोटिशतानि एकोनत्रिंशच भवन्ति कोटयः । एकोनपञ्चाशद् लक्षाः सप्तषष्टिरेव च सहस्राणि ॥ द्वे च शते षण्णवतिः पञ्चमवर्गोऽयं विनिर्दिष्टः ॥ ४° गो समासतो होति । अनुयोगद्वारचूर्णौ ॥ ५ लक्ष कोटाकोटी चतुरशीतिर्भवन्ति सहस्राणि । For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy