________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिनामा चतुर्थः कर्मग्रन्थः । 'संजोयणाइयाणं, नणूदओ संजयस्स पडिसिद्धो । सच्चमिह सोऽणुभागं, पडुच्च न पएसकम्मं तु ॥ भणियं च सुए जीवो, वेएइ न वाऽणुभागकम्मं तु । जं पुण पएसकम्म, नियमा वेएइ तं सव्वं ॥ नाणुदियं निजरए, नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं, वेएउं मुच्चए सव्वो ॥ किह दंसणाइघाओ, न होइ संजोयणाइवेयणओ । मंदाणुभावयाए, जहाऽणुभावम्मि वि कहिंचि ॥ निच्चमुइन्नं पि जहा, सयलचउन्नाणिणो तदावरणं ।
न वि घाइ मंदयाए, पएसकम्मं तहा नेयं ॥ (विशेषा० गा० १२९४-९८) "मिच्छ” त्ति मिथ्यात्वम्-अदेवदेवबुद्ध्यगुरुगुरुबुद्ध्यतत्त्वतत्त्वबुद्धिलक्षणम् । “मीस" ति इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन ग्रन्थिसम्भवेन औषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म विशोधयित्वा त्रिधा करोति । तथाहि-शुद्धमर्धविशुद्धमविशुद्धं चेति । स्थापना AAA। तत्र त्रयाणां पुञ्जानां मध्ये योऽसावविशुद्धः पुनः स मिश्र उच्यते, सम्यग्मिथ्यात्वमित्यर्थः । एतदुदयात् किल प्राणी जिनप्रणीतं तत्त्वं न सम्यक् श्रद्दधाति नापि निन्दति । उक्तं च बृहच्छतकवृहचूर्णी
जंहा नालिकेरदीववासिस्स अइछुहियस्स वि पुरिसस्स इत्थ ओयणाइए अणेगहा वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेणं सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्मामिच्छद्दिहिस्स वि जीवाइपयत्थाण उवरिं न रुई न य निंदा इत्यादि।
तथा “सासाण' त्ति सासादनं तत्र आयम्-औपशमिकसम्यक्त्वलक्षणं सादयति-अपनयति आसादनम्-अनन्तानुबन्धिकषायवेदनम् , अत्र पृषोदरादित्वाद् यशब्दलोपः, "रम्यादिभ्यः" (५-३-१२६) कर्तर्यनत्प्रत्ययः, सति यस्मिन् परमानन्दरूपानन्तसुखदो निःश्रेयसतरुबीजभूतो ग्रन्थिभेदसम्भवौपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षभिरावलिकाभिरपगच्छतीति, ततः सह आसादनेन वर्तत इति सासादनम् । यद्वा सास्वादनं तत्र सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति साखादनम् , यथा हि भुक्तक्षीरान्नविषयव्यलीकचित्तपुरुषस्तद्वमनकाले क्षीरान्नरसमाखादयति तथाऽत्रापि गुणस्थाने मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तस्य
१ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभागं प्रतीत्य न प्रदेशकर्म तु ॥ भणितं च श्रुते जीवो वेदयति न वा अनुभागकर्म तु । यत् पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ नानुदितं निर्जीर्यते नासदुदेति यत्ततोऽवश्यम् । सर्व प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ कथं दर्शनादिघातो न भवति संयोजनादिवेदनतः । मन्दानुभावतया यथा अनुभावेऽपि करिमंश्चिद् ॥ नित्यमुदीर्णमपि यथा सकलचतुर्छानिनस्तदावरणम् । नापि घातयति मन्दत्वात् प्रदेशकर्म तथा ज्ञेयम् ॥ २ यथा नालिकेरद्वीपवासिनः अतिक्षुधितस्यापि पुरुषस्यात्रौदनादिके अनेकधाऽपि ढौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः, एवं सम्यग्मिथ्यादृशोऽपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा ॥
For Private and Personal Use Only