________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आचार्याः
१४०
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
"गंटिं समइच्छओ” त्ति ग्रन्थि समतिक्रामतः - भिन्दानस्येति, “सम्मत्तपुरक्खडे" ति सम्यक्त्वं पुरस्कृतं येन तस्मिन्, आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा, तस्मादेवान्तरकरणादुपरितनी शेषा द्वितीया स्थितिः । स्थापना । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव । अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एव औपशमिकसम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदावोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्योपशमिकसम्यक्त्वलाभः । यदाहुः श्रीपूज्यपादाःऊसरदेस दल्लियं च विज्झाइ वणदवो पप्प |
इय मिच्छस्स अणुदए, उवसमसम्मं लहइ जीवो ॥ (विशेषा० गा० २७३४) इति । व्यावर्णितं ग्रन्थिभेदसम्भवमौ पशमिकसम्यक्त्वम् । अथोपशमश्रेणिसम्भवमौपशमिकसम्यक्त्वं त्रिभुवनजनप्रथितप्रवचनोपनिषद्वेदिश्रीजिन भद्रगणिक्षमाश्रमणप्रणीतगाथाभिरेव भाव्यतेडेवसामगसेढीए, पट्टवओ अप्पमत्तविरओ त्ति । पज्जवसाणे सो वा, होइ पमत्तो अविरओ वा ॥ अन्ने भांति अविरय-देस - पमत्ता - ऽपमत्तविरयाणं । अन्नयरो पडिवज्जइ, दंसण समयम्मि उ नियट्टी ||
Acharya Shri Kailassagarsuri Gyanmandir
( विशेषा० गा० १२८५- १२८६ )
संजणाई समो, जुत्तो संजोयणादओ जे उ ।
ते पुव्विं चिय समिया, नणु सम्मत्ताइलाभम्मि ॥ ( विशेषा० गा० १२९० )
औसि खओवसमो सिं, समोsहुणा भणइ को विसेसो सिं । नणु खीणम्मि उइने, सेसोवसमे खओवसमो ॥
सो चेव नणूवसमो, उइए खीणम्मि सेसए समिए ।
सुहुमोदयया मीसे, न तूवस मिए विसेसोऽयं ॥ वेएइ संतकम्मं, खओवसमिसु नाणुभागं सो ।
उवसंतकसाओ पुण, वेएइ न संतकम्मं पि ॥ (विशेषा० गा० १२९१-९३)
I
१ ऊषरदेशं दग्धं च विध्यायति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ २ उपशमकश्रेण्याः प्रस्थापकोऽप्रमत्तविरत इति । पर्यवसाने स वा भवति प्रमत्तोऽविरतो वा ॥ अन्ये भणन्त्य - विरतदेशप्रमत्ताप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते दर्शनसमये तु निवृत्तिः ॥ संज्वलादीनां शमो युक्तः संयोजनादयो ये तु । ते पूर्वमेव शमिताः ननु सम्यक्त्वादिलाभे ॥ ३ भाष्ये समम्मि शमने ॥ ४ आसीत् क्षयोपशम एषां शमोऽधुना भण्यते को विशेषोऽनयोः ? । ननु क्षीणे उदीर्णे शेषोपशमे क्षयोपशमः ॥ स एव ननूपशमः उदिते क्षीणे शेषके शमिते । सूक्ष्मोदयता मिश्रे न त्वोपशमिके विशेषोऽयम् ॥ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभागं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥
For Private and Personal Use Only