________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८ देवेन्द्रसूरिविरचितखोपज्ञीकोपेतः
[गाथा किण्हा नीला काऊ, तेऊ पम्हा य सुक्क भवियरा।।
वेयग खइगुवसम मिच्छ मीस सासाण सन्नियरे ॥ १३ ॥ इह घोढा लेश्या-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'चः' समुच्चये व्यवहितसम्बन्धश्च, स च शुक्ललेश्या च इत्यत्र योज्यः । 'भव्यः' मुक्तिगमनार्हः 'इतरः' अभव्यः-कदाचनापि सिद्धिगमनानहः । “वेयग" ति 'वेदकं' सम्यक्त्वपुद्गलवेदनात् क्षायोपशमिकमित्यर्थः । तत्रोदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन विष्कम्भितोदयखरूपेण यद् निर्वृत्तं तत् क्षायोपशमिकम् । उक्तं च
मिच्छत्तं जमुइन्नं, तं खीणं अणुदियं च उवसंत ।
मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥ (विशेषा० गा० ५३२) तथा “खड्ग" त्ति क्षयेण-अत्यन्तोच्छेदेन त्रिविधस्याऽपि दर्शनमोहनीयस्य निर्वृत्तं क्षायिकम् । तच्च क्षपकश्रेण्यामेवं भवति
पंढमकसाए समयं, खवेइ अंतोमुहुत्तमित्तेणं । तत्तु च्चिय मिच्छत्तं, तओ य मीसं तओ सम्म । बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज्ज भुज्जो न खीणम्मि ॥ तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण, पच्छा नाणामइगईओ॥ खीणम्मि दंसणतिए, किं होइ तओ तिदंसणाईओ? । भन्नइ सम्मदिट्टी, सम्मत्तखए कओ सम्मं ॥ निव्वलियमयणकुद्दवरूवं मिच्छत्तमेव सम्मत्तं । खीणं न उ जो भावो, सद्दहणालक्खणो तस्स ॥ सो तस्स विसुद्धयरो, जायइ सम्मत्तपुग्गलक्खयओ । दिट्टि व्व सण्हसुद्धब्भपडलविगमे मणूसस्स ।। जह सुद्धजलाणुगयं, वत्थं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्धपुग्गलपरिक्खए दंसणं पेवं ॥ (विशेषा० गा० १३१५-२१)
१ मिथ्यात्वं यदुदीर्ण तत् क्षीणमनुदितं चोपशान्तम् । मिश्रभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥ २प्रथमकषायान् समकं क्षपयति अन्तर्मुहूर्त्तमात्रेण । तत एव मिथ्यावं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ बद्धायुः प्रतिपन्नः प्रथमकषायक्षये यदि म्रियेत । ततो मिथ्यात्वोदयतश्चिनुयाद् भूयो न क्षीणे ॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चान्नानामतिगतिकः ॥क्षीणे दर्शनत्रिके किं भवति सकस्त्रिदर्शनातीतः? । भण्यते सम्यग्दृष्टिः सम्यक्त्वक्षये कुतः सम्यक्त्वम् ? ॥ निर्वलितमदनकोद्रवरूपं मिथ्यात्वमेव सम्यक्त्वम् । क्षीणं न तु यो भावः श्रद्धानलक्षणस्तस्य ॥ स तस्य विशुद्धतरो जायते सम्यक्त्वपद्रलक्षयतः । दृष्टिरिव श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ यथा शुद्धजलानुगतं वस्त्रं शुद्धं जलक्षये सुतराम। सम्यक्त्तशुद्धपुद्गलपरिक्षये दर्शनमप्येवम् ॥ ३ दुद्धं क० ग० घ० ०॥
For Private and Personal Use Only