________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२]
षडशीतिनामा चतुर्थः कर्मग्रन्थः । . 'जंघाबलम्मि खीणे, अविहरमाणो वि नवरि नावज्जे ।
तत्थेव अहाकप्पं, कुणइ उ जोगं महाभागो । ( पञ्चव० गा० १५२२) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाश्च । तत्र ये करपसमाप्त्यनन्तरमेव कल्पं गच्छं वा समुपयास्यन्ति त इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमन्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः । उक्तं च
__ इत्तरिय थेरकप्पे, जिणकप्पे आवकहिय चि ।। (पञ्चव० गा० १५२४) अत्र स्थविरकल्पग्रहणमुपलक्षणं खकल्पे वेति द्रष्टव्यम् । तत्रेत्वराणां कल्पप्रभावाद् देवमनुष्यतिर्यग्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्च वेदना न प्रादुःषन्ति, यावत्कथिकानां सम्भवेयुरपि । ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति । उक्तं च
इत्तरियाणुवसग्गा आयंका वेयणा य न हवन्ति ।
आवकहियाण भइया, (पञ्चव० गा० १५२६) इति । तथा "सुहुम" ति 'सूक्ष्मसम्परायं' सम्परैति-पर्यटति संसारमनेनेति सम्परायः-क्रोधादिकषायः, सूक्ष्मो लोभांशमात्रावशेषतया सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि संक्लिश्यमानकविशुद्ध्यमानकभेदं द्विधा । तत्र श्रेणिप्रच्यवमानस्य संक्लिश्यमानकम् , श्रेणिमारोहतो विशुद्ध्यमानकमिति । "अहखाय" ति अथशब्दोऽत्र याथातथ्ये, आङ् अभिविधौ, आसमन्ताद् याथातथ्येन ख्यातमथाख्यातम् , कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातम् । यद्वा यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धम् अकषायं भवति चारित्रमिति यत्तद् यथाख्यातम् । “देसजय" ति देशे-सङ्कल्पनिरपराधत्रसवधविषये यतं-यमनं संयमो यस्य स देशयतः-सम्यग्दर्शनयुत एकाणुव्रतादिधारी, अनुमतिमात्रश्रावक इत्यर्थः । यदाह श्रीशिवशर्मसूरिवरः कर्मप्रकृती
एंगवयाइ चरमो, अणुमइमित्त त्ति देसजई ॥ (गा० ३४०) "अजय" ति न विद्यते यतं-विरतं विरतिर्यस्य सोऽयतः सर्वथा विरतिहीनः । तथा दर्शनशब्दस्य प्रत्येक सम्बन्धात् चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्र चक्षुषा दर्शनं-वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् १, अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं-सामान्यांशात्मकं ग्रहणं तद् अचक्षुर्दर्शनम् २, अवधिना-रूपिद्रव्यमर्यादया. दर्शनं-सामान्यांशग्रहणमवधिदर्शनम् ३, केवलेन-संपूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं सामान्यांशग्रहणं तत् केवलदर्शनम् ४ इति । किंरूपाण्येतानि दर्शनानि ? अत आह–'अनाकाराणि' सामान्याकारयुक्तत्वे सत्यपि न विद्यते विशिष्टव्यक्त आकारो येषु तान्यनाकाराणि । भावार्थः प्रागेवोक्त इति ॥ १२ ॥
१ जङ्घाबले क्षीणेऽविहरन्नपि नवरं नापद्यते । तत्रैव यथाकल्पं करोति तु योगं महाभागः ॥ २ इखराः स्थविरकल्पे, जिनकल्पे यावत्कथिका इति ॥ ३ इखरिकाणामुपसर्गा आता वेदनाश्च न भवन्ति । यावत्कथिकानां भक्ताः ॥ ४ एकत्रतादिचरमः अनुमतिमात्र इति देशयतिः ॥ ५ °टो व्यक्त आ° 3०॥
क. १८
For Private and Personal Use Only