________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः - [गाथा कसमन्विता इत्यर्थः १३। ओजआहारलोमाहारकवलाहाराणामन्यतममाहारमाहारयति-गृह्मातीत्याहारः, “अच्” (सि०५-१-४९) इत्यच् [ प्रत्ययः ] आहारक इत्यर्थः १४। ओजआहारादीनां लक्षणमिदम्
सरिरेणोयाहारो, तयाइ फासेण लोमआहारो।
पक्खेवाहारो पुण, कावलिओ होइ नायबो ॥ (प्रव० गा० १९८०) ॥९॥ .. उक्तानि मूलभूतानि चतुर्दश मार्गणास्थानानि । इदानीमेतेषामेवोत्तरभेदानाह
सुरनरतिरिनिरयगई, इगबियतियचउपणिदि छक्काया ।
भूजलजलणाऽनिलवणतसा य मणवयणतणुजोगा ॥१०॥ इह गतिशब्दः प्रत्येकं सम्बध्यते, ततः सुरगतिः नरगतिः तिर्यग्गतिः नरकगतिः । तत्र सुष्ठ राजन्त इति सुराः; यदि वा सुष्ठ रान्ति-ददति प्रणतानामभीप्सितमर्थं लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः; यद्वा 'सुरत् ऐश्वर्यदीप्योः' सुरन्तिविशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणसम्भारसमृद्ध्या सहजनिजशरीरकान्त्या च दीप्यन्त इति सुराः, सुरेषु विषये गतिः सुरगतिः । नृणन्ति-विवेकमासाद्य नयधर्मपरा भवन्तीति नराःमनुष्यास्तेषु विषये गतिर्नरगतिः। “तिरि" ति प्राकृतत्वात् तिरोऽञ्चन्ति-गच्छन्तीति तिर्यश्चः, व्यत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिर्यक्षु विषये गतिस्तिर्यग्गतिः । नरान् उपलक्षणत्वात् तिरश्चोऽपि प्रभूतपापकारिणः कायन्तीव आह्वयन्तीवेति नरकाः-नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते "अभ्रादिभ्यः" (सि० ७-२-४६) इत्यप्रत्यये नरकास्तेषु विषये गतिर्नरकगतिः १॥ इहापि इन्द्रियशब्दस्य प्रत्येकं सम्बन्धाद् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया इति २। षट् कायाः-भूः-पृथ्वी जलम्-आपः ज्वलनं-तेजः अनिल:-वायुः “वण" ति वनस्पतिः नसाः-द्वीन्द्रियादयः; ततः प्रत्येकं कायशब्दस्य योगात् पृथिव्येव कायः शरीरं यस्य स पृथिवीकायः, एवमप्कायः तेजस्कायः वायुकायः वनस्पतिकायः त्रसकाय इति ३। 'चः' समुच्चये । योगशब्दस्य प्रत्येकं सम्बन्धात् त्रयो योगाः, तथाहिमनोयोगः वचनयोगः तनुयोगः । तत्र तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः; मनोविषयो वा योगो मनोयोगः । उच्यत इति वचनं भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः, तेन वचनेन सहकारिकारणभूतेन योगो वचनयोगः, वचनविषयो वा योगो वचनयोगः । तनोति-विस्तारयत्यात्मप्रदेशानस्यामिति तनुरौदारिकादिशरीरं तया सहकारिकारणभूतया योगस्तनुयोगः, तनुविषयो वा योगस्तनुयोगः ४ ॥१०॥
वेय नरित्थिनपुंसा, कसाय कोहमयमायलोभ त्ति ।
मइसुयऽवहिमणकेवलविभंगमइसुअनाणसागारा ।। ११ ॥ वेदशब्दस्य प्रत्येकं सम्बन्धात् त्रयो वेदाः-नरवेदः स्त्रीवेदः नपुंसकवेदः । तत्र नरस्य१ शरीरेणौजआहारस्वचा स्पर्शेन लोमाहारः । प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः ।
For Private and Personal Use Only