________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
षडशीतिनामा चतुर्थः कर्मग्रन्थः । ततः कथं तदाऽपि तयोर्नामगोत्रयोरुदीरको न भवति ? नैष दोषः, उदये सत्यपि योगसव्यपेक्षत्वाद् उदीरणायाः, तदानीं च तस्य योगासम्भवादिति ॥ ८॥
तदेवं जीवस्थानकेषु गुणस्थानकाद्यभिधाय साम्प्रतं मार्गणास्थानेषु जीवस्थानकादि विवक्षुस्तान्येव तावद् निर्दिशन्नाह
गइइंदिए य काए, जोए वेए कसायनाणेसु । .. संजमदंसणलेसा, भवसम्मे सन्निआहारे ॥९॥ गम्यते-तथाविधकर्मसचिवै वैः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः१। इन्दनादिन्द्रः-आत्मा ज्ञानेश्वर्ययोगात् तस्येदमिन्द्रियम् , “इन्द्रियम्" (सि. ७-१-१७४ ) इति सूत्रेणाऽभीष्टरूपनिष्पत्तिः, ततो गतिश्च इन्द्रियं च गतीन्द्रियं तस्मिन् गतीन्द्रिये, एवमन्यत्रापि द्वन्द्वः कार्यः, 'चः' समुच्चये २ । चीयते-यथायोग्यमौदारिकादिवर्गणागणैरुपचयं नीयत इति कायः "चितिदेहावासोपसमाधाने कश्चादेः” (सि० ५-३-७९) इति घञ्प्रत्ययश्वकारस्य ककारः (च) ३॥ युज्यते धावनवल्गनादिचेष्टाखात्माऽनेनेति "पुन्नानि०" (सि०५३-१३०) इति घे योगः ४। वेद्यते-अनुभूयत इन्द्रियोद्भूतं सुखमनेनेति वेदः ५। "कष शिष जष झष" इत्यादिदण्डकधातुः, कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषःसंसारः, कषमयन्ते-गच्छन्ति एभिर्जन्तव इति कषायाः; यद्वा कषस्यायः-लाभो येभ्यस्ते कषायाः ६। ज्ञातिर्ज्ञानम् , यद्वा ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानम् , सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः ७। संयमनं-सम्यगुपरमणं सावधयोगादिति संयमः, यद्वा संयम्यते-नियम्यत आत्मा पापव्यापारसम्भारादनेनेति संयमः “संनिव्युपाद्यमः" (सि० ५-३-२५) इति सूत्रेणात्प्रत्ययः, यदि वा सम्-शोभना यमाः-प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा अस्मिन्निति संयमश्चारित्रम् ८ । दृश्यते-विलोक्यते वस्त्वनेनेति दर्शनम् , यदि वा दृष्टिदर्शनम् , सामान्यविशेषात्मके वस्तुनि सामान्यात्मको बोध इत्यर्थः ९। लिश्यते-श्लिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या १० । भवति-परमपदयोग्यतामासादयतीति भव्यः-सिद्धिगमनयोग्यः "भव्यगेयजन्यरम्यापात्याप्लाव्यं न वा" (सि० ५-१-७) इति कर्तरि यप्रत्ययः, सूत्रे च यकारलोपः प्राकृतत्वात् ११। “सम्म" त्ति सम्य. क्शब्दः प्रशंसार्थोऽविरुद्धार्थो वा, सम्यग् जीवः, तद्भावः सम्यक्त्वम् , प्रशस्तो मोक्षाविरोधी वा प्रशमसंवेगादिलक्षण आत्मधर्म इति यावत् । यदाहुः श्रीभद्रबाहुस्खामिपादाः. से य सम्मत्ते पसरथसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे ॥ (आव. नि० पत्र ८११-१) इत्यादि १२।
संज्ञानं संज्ञा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते संज्ञिनः, "ब्रह्मादि. भ्यस्तौ” (सि०७-२-५) इति इन्प्रत्ययः, विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्च
१ तच सम्यक्वं प्रशस्तसम्यक्त्वमोहनीयकर्माणुवेदनोपशमक्षयसमुत्थः प्रशमसंवेगादिलिङ्गः शुभ आत्मपरिणामः ॥ २ अतिप्रबलोऽयं लेखकदोषो यन्नोपलभ्यतेऽदः किन्तु व्रीह्यादिभ्य इति । तत्त्वतस्तु शिखादिभ्य इनित्यनेनैवेन (सि० ७-२-४)॥
For Private and Personal Use Only