________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिनामा चतुर्थः कर्मग्रन्थः । खीणम्मि मोहणिज्जे, खीणकसाओ सजोग जोगि त्ति (गति)। होइ पउत्ता य तओ, अपउत्ता होइ हु अजोगी । अविरयसासणमिच्छा, परमविया न उण सेसगुणठाणा । मिच्छस्स तिन्नि भंगा, छावलियं होइ सासाणं ।। तितीसयर चउत्थं, पुवाणं कोडि ऊण तेरसमं ।
लहुपंचक्खर चरिमं, अंतमुहू सेसगुणठाणा ॥ ततो बादराश्च-बादरैकेन्द्रियाः पृथिव्यम्बुवनस्पतिलक्षणाः असंज्ञी च-विशिष्टस्मरणादिरूपमनोविज्ञानविकलः विकलाश्च-विकलेन्द्रिया द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः बादरासंज्ञिविकलं तस्मिन् बादरासंज्ञिविकले । किंविशिष्टे ? "अपजि" ति अपर्याप्ते, कोऽर्थः ? अपर्याप्तबादरैकेन्द्रियेषु पृथिव्यम्बुवनस्पतिषु, तथा अपर्याप्तेऽसंज्ञिनि, तथा विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेष्वपर्याप्तेषु । किम् ? इत्याह-"पढमबिय" ति इह "सवगुणा" इति पदाद् गुणशब्दस्याकर्षणम् , ततः प्रथम-मिथ्यादृष्टिगुणस्थानं द्वितीयं-सासादनगुणस्थानं भवति । अथ तेजोवायुवर्जनं किमर्थम् ? इति चेद्, उच्यते-तेजोवायूनां मध्ये सम्यक्त्वलेशवतामपि उत्पादाभावात् सम्यक्त्वं चासादयतां सासादनभावाभ्युपगमात् । - नन्वेकेन्द्रियाणामागमे सासादनभावो नेष्यते, "उभयाभावो पुढवाइएसु सम्मत्तलद्धीए" इति परममुनिप्रणीतवचनप्रामाण्यात् , अत एवागमे एकेन्द्रिया अज्ञानिन एवोक्ताः, द्वीन्द्रि यादयश्च केचिदपर्याप्तावस्थायां सासादनभावाभ्युपगमाद् ज्ञानिन उक्ताः केचिच्च तदभावाद् अज्ञानिनः, यदि पुनरेकेन्द्रियाणामपि सासादनभावः स्यात् तर्हि तेऽपि द्वीन्द्रियादिवद् उभ. यथाऽप्युच्येरन् , न चोच्यन्ते, यदुक्तम्___ ऐंगेंदिया णं भंते ! किं नाणी अन्नाणी ? गोयमा! नो नाणी नियमा अन्नाणी । तथाबेइंदिया णं भंते ! किं नाणी अन्नाणी ? गोयमा! नाणी वि अन्नाणी वि । इत्यादि ।
तत् कथमिहापर्याप्तबादरैकेन्द्रियेषु पृथिव्यम्बुवनस्पतिलक्षणेषु सासादनगुणस्थानकभाव उक्तः ?, सत्यमेतत् , किन्तु मा त्वरिष्ठाः, सर्वमेतदने प्रतिविधास्याम इति ।
"सन्निअपजते अजयजुय" ति । संज्ञिन्यपर्याप्ते तदेव पूर्वोक्तं मिथ्यादृष्टिसासादनलक्षणं गुणस्थानकद्वयमयतयुतं भवति । यमनं यतं-विरतिरित्यर्थः, न विद्यते यतं यस्य सोऽयतोऽविरतसम्यग्दृष्टिरित्यर्थः, तेन युतं-संयुक्तमयतयुतम् । इदमुक्तं भवति-संज्ञिन्यपर्याप्ते त्रीणि मिथ्यादृष्टिसासादनाऽविरतसम्यग्दृष्टिलक्षणानि गुणस्थानानि भवन्ति, न शेषाणि सम्यग्मिथ्या
१क्षीणे मोहनीये क्षीणकषायः सयोगः योगीति । भवति प्रयोका च सकः अप्रयोक्का भवत्येवायोगी॥ अविरतसाखादनमिथ्यावानि परभविकानि न पुनः शेषगुणस्थानानि । मध्यात्वस्य त्रयो महाः षडावलिकं भवति साखादनम् ॥ त्रयस्त्रिंशदतराणि चतुर्थ पूर्वाणां कोटिरूना त्रयोदशम् । लघुपञ्चाक्षरं चरममन्तर्मुहूर्त शेषगुणस्थानानि ॥ २ उभयाभावः पृथिव्यादिकेषु सम्यक्खलब्धेः ॥ ३ एकेन्द्रियाः भदन्त ! किं शानिनोऽज्ञानिनः ? गौतम ! न ज्ञानिनो नियमादज्ञानिनः ॥ द्वीन्द्रियाः भदन्त ! किं ज्ञानिनोऽज्ञानिनः १ गौतम ! ज्ञानिनोप्यज्ञानिनोऽपि ॥
For Private and Personal Use Only