________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिनामा चतुर्थः कर्मग्रन्थः । इन्द्रिये येषां ते द्वीन्द्रियाः कृमिपूतरकचन्दनकशङ्खकपर्दजलौकाप्रभृतयः । त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः कुन्थुमत्कुणयूकागर्दभेन्द्रगोपकमत्कोटकादयः । चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः भ्रमरमक्षिकामशकवृश्चिकादयः । पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः मत्स्यमकरेभकलभसारसहंसनरसुरनारकादयः, ते च द्विविधाः-संज्ञिनोऽसंज्ञिनश्च । तत्र संज्ञानं संज्ञा-भूतभवद्भाविभावखभावपर्यालोचनम् , "उपसर्गादातः" (सि०५-३-११०) इत्यङ्प्रत्ययः, सा विद्यते येषां ते संज्ञिनः-विशिष्टस्मरणादिरूपमनोविज्ञानभाज इति यावत् , तद्विपरीता असंज्ञिनः-विशिष्टस्मरणादिरूपमनोविज्ञानविकला इत्यर्थः । एते च सूक्ष्मैकेन्द्रियादयः प्रत्येक द्विधा-पर्याप्तका अपर्याप्तकाश्च । पर्याप्तिर्नाम-पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्ति विशेषः, सा च विषयभेदात् षोढा--आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ उच्छासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिः ६ चेति । तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २ । यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३ । यया पुनरुच्छासप्रायोग्यवर्गणादलिकमादाय उच्छासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्यसपर्याप्तिः ४ । यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५। यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियादीनां संज्ञिनां च चतुःपश्वषट्सङ्ख्या भवन्ति । यदभाणि
आहारसरीरिंदिय, पजत्ती आणपाणुभासमणे ।
चत्तारि पंच छ प्पि य, एगिदियविगलसन्नीणं ।। पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, "अप्रादिभ्यः" (सि० ७-२-४६) इति मत्वर्थीयः अप्रत्ययः, खार्थिककप्रत्ययोपादानात् पर्याप्तकाः । ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्तकाः, ते च द्विधा लब्ध्या करणैश्च । तत्र येऽपर्याप्तका एव सन्तो नियन्ते न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावद् निर्वर्तयन्ति अथ चावश्यं पुरस्ताद् निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः ।
इह चैवमागमः
लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नाग, यस्मादागामिभवायुर्बद्धा नियन्ते सर्व एव देहिनः, तच्चाऽऽहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यते ।
इति ॥२॥ तदेवं निरूपितानि जीवस्थानानि। अथैतेष्वेव जीवस्थानेषु गुणस्थानानि प्रचिकटयिषुराह१ आहारशरीरेंद्रियाणि पर्याप्तय आनप्राण भाषामनांसि । चतस्नः पञ्च षडपि च एकेन्द्रियविकल, संज्ञिनाम् ॥
For Private and Personal Use Only