________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिनामा चतुर्थः कर्मग्रन्थः । ततो जीवस्थानानि च मार्गणास्थानानि च गुणस्थानानि च उपयोगाश्च योगाश्च लेश्याश्चेति द्वन्द्वे द्वितीया शस् । "बंध" ति मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद् वययः पिण्डवद्वा अन्योन्यानुगमाभेदात्मकः सम्बन्धो बन्धः १ । उपलक्षणत्वाद् उदयोदीरणासत्तानां परिग्रहः । तत्र तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामपवर्तनादिकरणकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः २ । तेषामेव कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्यविशेषाद् उदयावलिकायां प्रवेशनमुदीरणा ३ । तेषामेव कर्मपुद्गलानां बन्धसङ्कमाभ्यां लब्धात्मलाभानां निर्जरणसङ्कमकृतखरूपप्रच्युत्यभावे सति सद्भावः सत्ता ४ । यद्वा बन्ध इति पदैकदेशेऽपि 'भामा सत्यभामा' इति न्यायेन पदप्रयोगदर्शनाद् बन्धहेतवो मिथ्यात्वाऽविरतिकषाययोगरूपा वक्ष्यमाणा गृह्यन्ते ७ । “अप्पबहू" ति भावप्रधानत्वान्निर्देशस्य अल्पबहुत्वं गत्यादिरूपमार्गणास्थानादीनां परस्परं स्तोकभूयस्त्वम् ८ । "भाव" ति जीवाजीवानां तेन तेन रूपेण भवनानि परिणमनानि भावा औपशमिकादयः ९। ततो बन्धश्च अल्पबहुत्वं च भावाश्चेति द्वन्द्वे द्वितीयाबहुवचनं शस् । सूत्रे च "अप्पबहू" इत्यत्र दीर्घत्वं “दीर्घहखौ मिथो वृत्तौ" (सि० ८-१-४) इति प्राकृतसूत्रेण । “संखिजाइ" ति सयायते-चतुष्पल्यादिप्ररूपणया परिमीयत इति सद्ध्येयम् , आदिशब्दादसङ्ख्येयानन्तकपरिग्रहः १० । तत एवं जीवस्थानादिकमनन्तकपर्यवसानं द्वारकलापमत्र वक्ष्य इत्यनेनाभिधेयमाह । कथं वक्ष्ये ? इत्याह"किमवि" ति किमपि किञ्चित् खल्पं न विस्तरवत् , दुःषमानुभावेनापचीयमानमेधायुर्बलादिगुणानामैदंयुगीनजनानां विस्तराभिधाने सत्युपकारासम्भवात् , तदुपकारार्थं चैष शास्त्रारम्भप्रयासः । एतेन ससिप्तरुचिसत्त्वानाश्रित्य प्रयोजनमाचष्टे । सम्बन्धस्त्वर्थापत्तिगम्यः, स चोपायोपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणो वा खयमभ्यूह्यः। __इह च मार्गणास्थानगुणस्थानादयः सर्वे पदार्था न जीवपदार्थमन्तरेण विचारयितुं शक्यन्त इति प्रथमं जीवस्थानग्रहणम् १ । जीवाश्च प्रपञ्चतो निरूप्यमाणा गत्यादिमार्गणास्थानैरेव निरूपयितुं शक्यन्त इति तदनन्तरं मार्गणास्थानग्रहणम् २ । तेषु च मार्गणास्थानेषु वर्तमाना जीवा न कदाचिदपि मिथ्यादृष्ट्याद्यन्यतमगुणस्थानकविकला भवन्तीति ज्ञापनाय मार्गणास्थानकानन्तरं गुणस्थानकग्रहणम् ३ । अमूनि च गुणस्थानकानि परिणामशुद्ध्यशुद्धिप्रकर्षापकर्षरूपाण्युपयोगवतामेवोपपद्यन्ते नान्येषामाकाशादीनाम् , तेषां ज्ञानादिरूपपरिणामरहितत्वादिलि प्रतिपत्त्यर्थं गुणस्थानकग्रहणानन्तरमुपयोगग्रहणम् ४ । उपयोगवन्तश्च मनोवाकायचेष्टासु वर्तमाना नियमतः कर्मसम्बन्धमाजो भवन्ति । तथा चागमः
बाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ तं तं भावं परिणमइ ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा नो णं अबंधए । इति ज्ञापनार्थमुपयोगग्रहणानन्तरं योगग्रहणम् ५ । योगवशाच्चोपात्तस्यापि कर्मणो यावद
सावत् सह एप जीव एजते व्येजवे चलति सन्दते घट्टते क्षुभ्यति तं तं भानं परिणमते तावइष्टविधबन्धको वा सप्तविषबन्धको बा पजियनन्धको वा एकविधवन्धको वा व खल्बबन्धकः ॥
For Private and Personal Use Only