________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६-१७]
बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः ।
१०७
कुतोऽपि हेतोः पूर्वाचार्यैः स नोक्तः । एवं योगेषु बन्धस्वामित्वमुक्तम् । अथ वेदादिषु तदभिधित्सुः प्रथमं गुणस्थानकानि तेष्वाह – “वेयतिग" इत्यादि । 'वेदत्रिके' स्त्री वेदपुंवेदनपुंसकवेदरूपे 'नव' नवसङ्ख्याकानि " संजलण" इत्याद्यग्रेत नगाथा (१७)स्थ “पढम" इति पदस्यात्रापि सम्बन्धात् 'प्रथमानि' मिथ्यात्वादीनि अनिवृत्तिबादरान्तानि गुणस्थानकानि भवन्ति, ततः परं वेदानामभावात् । एतेषु यः कर्मस्तत्रोक्तः सामान्यबन्धः स द्रष्टव्यः । तद्यथा – सामान्यतो नानाजीवापेक्षया विंशत्युत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम्, मिश्र चतुःसप्ततिः, अविरते सप्तसप्ततिः, देश विरते सप्तषष्टिः, प्रमत्ते त्रिषष्टिः, अप्रमते एकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत्, भागपञ्चके षट्पञ्चाशत्, सप्तमभागे षडूविंशतिः, अनिवृत्तिबादरे आद्ये भागे द्वाविंशतिः, एवमन्यत्रापि गुणस्थानकेषु यथासम्भवं कर्मस्तवोक्तो बन्घो वाच्यः । कषायद्वारे —— आद्येऽनन्तानुबन्धिक्रोधमानमाय। लोभरूपे कषायचतुष्के द्वे प्रथमे मिथ्यात्वसासादनाख्ये गुणस्थानके तत्र तीर्थकरबन्धस्य सम्यक्त्वप्रत्ययत्वाद् आहारकद्विकबन्धस्य च संयमहेतुत्वाद् अनन्तानुबन्धिषु तदभावात् सामान्येन सप्तदशोत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम् । द्वितीयेऽप्रत्याख्यानाख्ये कषायचतुष्के चत्वारि प्रथमानि मिथ्यात्वसासादनमिश्राऽविरतनामकानि गुणस्थानकानि, तत्राहारकद्विकबन्धाभावेन सामान्येन अष्टादशोत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम्, मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः । तृतीये प्रत्याख्यानावरणाख्ये कषायचतुष्के पञ्च आद्यानि मिथ्यात्वादीनि देशविरतान्ता ने गुणस्थानकानि, देश विरते सप्तषष्टिः, शेषाणि तथैव ॥ १६ ॥
संजलणतिगे नव दस, लोभे चउ अजइ दु ति अनाणतिगे ।
बारस अचक्खुचक्खुसु, पढमा अहखाइ चरमचऊ ॥ १७ ॥ व्याख्या— 'संज्वलनत्रिके' संज्वलनक्रोधमानमायारूपे नवाऽऽद्यानि गुणस्थानकानि । तत्र सामान्यबन्धाद् निवृत्तिबादरं यावद् वेदत्रिकन्यायेन विंशत्युत्तरशतादिको बन्धः, अनिवृत्ति - बादरे तु प्रथमे भागे द्वाविंशतिः, द्वितीये पुंवेदरहिता एकविंशतिः, तृतीये संज्वलनक्रोधर - हिता विंशतिः, चतुर्थे संज्वलनमानरहिता एकोनविंशतिः, पञ्चमे संज्वलनमायारहिता अष्टादश । संज्वलनलोभस्य तु सूक्ष्मसम्परायेऽपि भावात् तत्र दश प्रथमानि गुणस्थानानि, तत्र नव तथैव, दशमे तु सूक्ष्मसम्पराये सप्तदश प्रकृतयः । संयमद्वारे – 'अयते' असंयते चत्वारि आद्यानि गुणस्थानानि, तत्र सामान्यतोऽविरत सम्यग्दृष्टेरपि सङ्गृहीतत्वाद् जिननामक्षेपात् सप्त - दशोत्तरशतं जातमष्टादशोत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम्, मिश्र चतुःसप्ततिः, अविरते सप्तसप्ततिः । ज्ञानद्वारे - ' अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे द्वे मिथ्यात्वसासादने, त्रीणि वा गुणस्थानकानि मिश्रेण सह । अयमाशयः - मिश्रे ज्ञानां - शोऽज्ञानांशश्चास्ति, तत्र यदाऽज्ञानांशप्राधान्यविवक्षा तदाऽज्ञानत्रिके गुणस्थानकद्वयमेव, ज्ञानांशप्राधान्यविवक्षायां तु तृतीयं मिश्रमपि तत्रौघे सप्तदशोत्तरशतम्, मिध्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम् मिश्रे चतुःसप्ततिः । दर्शनद्वारे —— चक्षुरचक्षुर्दर्शनयोः प्रथमानि
For Private and Personal Use Only