________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
देवेन्द्रसूरिविरचितः सावचूरिकः _ [गाथा पञ्चकयुता च पञ्चसप्ततिस्तामौदारिकमिश्रकाययोगी सम्यक्त्वे बध्नाति । तथा सयोगिन औदारिकमिश्रस्थाः केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु सातमेवैकं बघ्नन्ति । एवं गुणस्थानकचतुष्क एवौदारिकमिश्रयोगो लभ्यते नान्यत्र । अथ कार्मणयोगादिषु बन्धः प्रतिपाद्यते "विणु तिरि" इत्यादि । यथौदारिकमिश्रे बन्धविधिरोघतो विशेषतश्चोक्तः एवं कार्मणयोगेऽपि तिर्यनरायुषी विना वाच्यः, कार्मणकाययोगे तिर्यनरायुषोर्बन्धाभावात् । कार्मणकाययोगो ह्यपान्तरालगतावुत्पत्तिप्रथमसमये च जीवस्य मिथ्यात्वसासादनाऽविरतगुणस्थानकत्रयोपेतस्य लभ्यते । उक्तं च
मिच्छे सासाणे वा, अविरयसम्मम्मि अहव गहियम्मि । __ जंति जिया परलोए, सेसिक्कारस गुणे मुत्तुं ॥ (प्रव० गा० १३०६). तथा सयोगिनः केवलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेषु चेति गुणस्थानकचतुष्टय एव कार्मणकाययोगो नान्यत्र । ततो विंशत्युत्तरशतमध्याद् आहारकषट्कतिर्यग्नरायुःप्रकृतीर्मुक्त्वा शेषस्य द्वादशोत्तरशतस्य सामान्येन कार्मणकाययोगे बन्धः । तदेव द्वादशोत्तरशतं जिनादिपञ्चकं विना शेषं सप्तोत्तरशतं कार्मणकाययोगे मिथ्यादृशो बध्नन्ति । तदेव सप्तोत्तरशतं सूक्ष्मादित्रयोदश प्रकृतीर्मुक्त्वा शेषां चतुर्नवति कार्मणयोगे सासादना बध्नन्ति । चतुर्नवतिरेवाऽनन्तानुबन्ध्यादिचतुर्विशतिप्रकृतीविना जिननामादिप्रकृतिपञ्चकसहिता च पञ्चसप्ततिस्तां कार्मणयोगेऽविरता बध्नन्ति । सयोगिनस्तु कार्मणकाययोगे सातमेवैकं बध्नन्ति । तथाऽऽहारककाययोगश्चतुर्दशपूर्वविदः, आहारकमिश्रकाययोगश्च तस्यैवाऽऽहारकशरीरस्य प्रारम्भसमये परित्यागसमये च औदारिकेण सह द्रष्टव्यः । ततः 'आहारकद्विके' आहारकशरीरतन्मिश्रलक्षणे योगद्वये ओघः कर्मस्तवोक्तः प्रमत्तगुणस्थानवर्ती त्रिषष्टिप्रकृतिबन्धरूपः । एतत् काययोगद्वयं हि लब्ध्युपजीवनात् प्रमत्तस्यैव न त्वप्रमत्तस्य ॥ १५ ॥
सुरओहो वेउव्वे, तिरियनराउरहिओ य तम्मिस्से ।
वेयतिगाइम बिय तिय, कसाय नव दु चउ पंच गुणा ॥ १६ ।। व्याख्या-'सुरोघः' सामान्यदेवबन्धो वैक्रियकाययोगे द्रष्टव्यः । तद्यथा-सामान्येन चतुरप्रशतम् , मिथ्यात्वे व्युत्तरशतम् , सासादने षण्णवतिः, मिश्रे सप्ततिः, अविरते द्विसप्ततिः। तथा 'तन्मिश्रे' वैक्रियामश्रे स एव सुरोधस्तियनरायुष्करहितो वाच्यः । इह देवनारका निजायुःषण्मासावशेषा एवायुर्वनन्ति, अतो वैक्रियमिश्रयोगे उत्पत्तिप्रथमसमयादनन्तरमपर्याप्तावस्थासम्भविनि आयुर्द्वयबन्धाभावः। तथा चाऽत्रौघे व्युत्तरशतम् , मिथ्यात्व एकोत्तरशतम् , सासा. दने चतुर्नवतिः, अविरत एकसप्ततिः । वैक्रियमिश्रयोगो मिश्रता चाऽस्यात्र कार्मणकायेनैव सह मन्तव्या । अयमपि च मिथ्यात्वसासादनाऽविरतगुणस्थानकत्रय एव लभ्यते नान्यत्र । यद्यपि देशावरतस्याऽम्बडादेः प्रमत्तस्य तु विष्णुकुमारादेक्रियं कुर्वतो वैक्रियमिश्रवैक्रियसम्भवः श्रूयते परं खभावस्थस्य वैक्रिययोगस्याऽत्र गृहीतत्वाद् अथवा स्वल्पत्वाद् अन्यतो वा
१ मिथ्यात्वे सासादने वाऽविरतसम्यक्त्वऽथवा गृहीते । यान्ति जीवाः परलोकं शेषकादश गुणस्थानानि मुक्ता॥ २°यभावम्मि अहिगए अहवा । प्रवचनसारोद्धारे वेवं पाठः ।।
For Private and Personal Use Only