________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६-१८] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । स्विकषाया मयूरव्यंसकादित्वात् पूरणप्रत्ययलोपी समासः, प्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः ॥ १६ ॥
अच्छेओ इगसी, पमत्ति आहारजुगलपक्खेवा ।
थीणतिगाहारगदुगछेओ छस्सयरि अपमत्ते ॥ १७ ॥ __पूर्वोक्ताष्टप्रकृतीनां देशविरते उदयमाश्रित्य च्छेदो भवति, ततः प्रमत्ते एकाशीतिर्भवति, आहारकयुगलप्रक्षेपात् । इदमत्र हृदयम्-तिर्यग्गतितिर्यगायुषी तिर्यग्वेद्य एव, तेषु च देशविरतान्तान्येव गुणस्थानानि घटन्ते नोत्तराणीत्युत्तरेषु तदुदयाभावः; नीचैर्गोत्रं तु तिर्यग्गतिखाभाव्याद् ध्रुवोदयिकं न परावर्तते, ततश्च देशविरतस्यापि तिरश्चो नीचर्गोत्रोदयोऽस्त्येव, मनुजेषु पुनः सर्वस्य देशविरतादेर्गुणिनो गुणप्रत्ययाद् उच्चैर्गोत्रमेवोदेतीत्युत्तरत्र नीचैर्गोत्रोदयाभावः, उद्योतनाम खभावतस्तिर्यग्वेद्यम् , तेषु च देशविरतान्तान्येव गुणस्थानानि नोत्तराणीत्युत्तरेषु तदुदयाभावः, यद्यपि यतिवैक्रियेऽप्युद्योतनामोदेति "उत्तरदेहे च देवजई" इति वचनात् तथापि खल्पत्वादिना केनापि कारणेन पूर्वाचार्यैर्न विवक्षितमित्यमाभिरपि न विवक्षितम् ; तृतीयकषायोदये हि चारित्रलाभ एव न भवति, उक्तं च पूज्यैः
तेइयकसायाणुदए, पच्चक्खाणावरणनामधिज्जाणं ।।
देसिक्कदेसविरई, चरित्तलंभं न उ लहंति ॥ (आ० नि० गा० ११०) न च पूर्वप्रतिपन्नचारित्रस्य तदुदयसम्भव इत्युत्तरेषु तदुदयाभाव इत्येता अष्टौ प्रकृतयः पूर्वोक्तसप्ताशीतरपनीयन्ते शेषा एकोनाशीतिः, तत आहारकयुगलं क्षिप्यते, यतः प्रमत्तयतेराहारकयुगलस्योदयो भवतीत्येकाशीतिः । “थीणतिग" ति स्त्यानर्द्धित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपम् आहारकद्विकम्-आहारकशरीराहारकाङ्गोपाङ्गलक्षणमिति प्रकृतिपञ्चकस्य प्रमत्ते छेदो भवति, ततः पूर्वोक्तकाशीतेरिदं प्रकृतिपञ्चकमपनीयते शेषा षट्सप्ततिरप्रमत्ते उदये भवति । अयमत्राशयः-स्त्यानर्द्धित्रिकोदयः प्रमादरूपत्वाद् अप्रमते न सम्भवति, आहारकद्विकं च विकुर्वाणो यतिरोत्सुक्याद अवश्यं प्रमादवशगो भवत्यत इदमप्यप्रमत्ते उदयमाश्रित्य न जाघटीति, यत्पुनरिदमन्यत्र श्रूयते--प्रमत्तयतिराहारकं विकृत्य पश्चाद् विशुद्धिवशात् तत्रस्थ एवाप्रमत्ततां यातीति तत् केनापि खल्पत्वादिना कारणेन पूर्वाचार्य विवक्षितमित्यस्माभिरपि न विवक्षितमिति ॥ १७ ॥
सम्मत्तंतिमसंघयणतिगच्छेओ बिसत्तरि अपुव्वे ।
हासाइछक्कतो, सहि अनियहि वेयतिगं ॥ १८॥ सम्यक्त्वम् अन्तिमसंहननत्रिकम्-अर्धनाराचसंहननकीलिकासंहननसेवार्तसंहननरूपमित्येतत्प्रकृतिचतुष्टयस्याप्रमत्ते छेदो भवति, तत इदं प्रकृतिचतुष्कं पूर्वोक्तषट्सप्ततेरपनीयते शेषा द्वासप्ततिः "अपुषि" ति अपूर्वकरणे उदये भवतीति । अयमत्राशयः-सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभावः, अन्तिमसंहननत्रयो
१ उत्तरदेहे च देवयती ॥ २ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशैकदेशविरति चारित्रलाभं न तु लभन्ते ॥
For Private and Personal Use Only