________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा मीसो कुणइ कालं" इति वचनात् ; मिश्रप्रकृतिः पुनरत्रोदये प्राप्यते, ततः सास्वादनव्यवच्छिन्नं प्रकृतिनवकमानुपूर्वी त्रिकं च पूर्वोक्तैकादशशताद् अपनीयते शेषा तिष्ठति प्रकृतीनां नवनवतिः, तत्र मिश्रप्रकृतिप्रक्षेपे जातं शतमिति । "मीसंतु" ति मिश्रगुणस्थाने मिश्रप्रकृतेरन्तो भवति, एतदुदये हि मिश्रदृष्टिरेव भवति नान्य इति । "चउसयमजए सम्माणुपु. बिखेव" ति चतुर्भिरधिकं शतं चतुःशतमुदये भवति, क? इत्याह-अयते' अविरतसम्यग्दृष्टौ, कथम् ? इत्याह-"सम्म" ति सम्यक्त्वं "अणुपुषि" ति आनुपूर्व्यश्चतस्रस्तासां क्षेपात्-प्रक्षेपात् । इदमुक्तं भवति–पूर्वोक्तशताद् मिश्रगुणस्थानव्यवच्छिन्नैका मिश्रप्रकृतिरपनीयते, शेषा नवनवतिः, तत्र सम्यक्त्वानुपूर्वीचतुष्कलक्षणं प्रकृतिपञ्चकं क्षिप्यते जातं चतुःशतम्, यतः सम्यक्त्वमत्र गुणे उदयत एव, तथाऽविरतसम्यग्दृशां यथाखं चतस्रोऽप्यानुपूर्व्य इति । "बियकसाय" ति द्वितीयकषायाः-अप्रत्याख्यानावरणाश्चत्वारः क्रोध. मानमायालोमाः ॥ १५ ॥
मणुतिरिणुपुव्वि विउवष्ट दुहग अणइजदुग सतरछेओ।
सगसीइ देसि तिरिगइआउ निउज्जोय तिकसाया ॥१६॥ "मणुतिरिणुपुषि" ति आनुपूर्वीशब्दस्य प्रत्येकं योजनाद् मनुजानुपूर्वी तिर्यगानुपूर्वी "विउवऽट्ट" ति वैक्रियाष्टकं-वैक्रियशरीरवैक्रियाङ्गोपाङ्गदेवगतिदेवानुपूर्वीदेवायुनरकगतिनरकानुपूर्वीनरकायुर्लक्षणं दुर्भगम् अनादेयद्विकम्-अनादेयाऽयशःकीर्तिरूपम् इत्येतासां सप्तदशप्रकृतीनामविरतसम्यग्दृष्टावुदयं प्रतीत्य च्छेदो भवति । तत इमाः सप्तदश प्रकृतयः पूर्वोक्तचतुःशताद अपनीयन्ते शेषा "सगसीइ देसि" ति सप्ताशीतिः "देसि" ति देशविरते उदये भवति । इदमत्र तात्पर्यम्-द्वितीयकषायोदये हि देशविरतेर्लाभ आगमे निषिद्धः; यदागमः
बीयकसायाणुदए, अप्पच्चक्खाणनामधिज्जाणं ।
सम्मइंसणलंभ, विरयाविरयं न उ लहंति ॥ (आ० नि० गा० १०९) नापि पूर्वप्रतिपनदेशविरत्यादेर्जीवस्य तदुदयसम्भवस्तेनोत्तरेषु तदुदयाभावः; मनुजानुपूर्वीतिर्यगानुपूर्योस्तु परभवादिसमयेषु त्रिष्वपान्तरालगतावुदयसम्भवः, स च यथायोगं मनुजतिरश्वां वर्षाष्टकाद् उपरिष्टात् सम्भविषु देशविरत्यादिगुणस्थानेषु न सम्भवति; देवत्रिक नारकत्रिकं च देवनारकवेद्यमेव, न च तेषु देशविरत्यादेः सम्भवः; वैक्रियशरीरवैकि. यानोपाङ्गनाम्नोस्तु देवनारकेषूदयः, तिर्यग्मनुष्येषु तु प्राचुर्येणाऽविरतसम्यग्दृष्ट्यन्तेषु; यस्तू. चरगुणस्थानेष्वपि केषाञ्चिदागमे विष्णुकुमारस्थूलभद्रादीनां वैक्रियद्विकस्योदयः श्रूयते स प्रविरलतरत्वादिना केनापि कारणेन पूर्वाचार्यैर्न विवक्षित इत्यस्माभिरपि न विवक्षित इति; दुर्भगमनादेयद्विकमित्येतास्तु तिस्रः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययाद् नोदयन्त इत्येता अविरते व्यवच्छिन्ना इति । “तिरिगइआउ" ति तिर्यक्शब्दस्य प्रत्येकं योगात् तिर्यग्गतिस्तिर्यगायुः "निउज्जोय" ति नीचैर्गोत्रमुद्योतं च “तिकसाय" ति तृतीयाः कषाया
१ द्वितीयकषायाणामुदये अप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते ॥ २°त इति । दुर्भ० क० घ० ० ॥
For Private and Personal Use Only