________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्वाचार्यविरचित अधुना तृतीयगाथा व्याख्यायते
चिट्ठउ दूरे मतो, तुज्य पणामो वि बहुफलो होइ।
नरतिरिएसु वि जीवा, पावंति न दुक्खदोहग्गं ॥३॥ व्याख्या-यो मन्त्रः पूर्वं उक्तः स मन्त्रस्तावत् दूरे तिष्ठतु । कथं ? पुरश्चरणोत्तरचरणहोमतपोजपादिषु प्रक्रियासाध्यत्वेन कष्टावहत्वात् दूरापास्त एव । आस्तां तव भवतः प्रणामोऽपि प्रशब्दस्य प्रकर्षयोतकत्वात् विशुद्धश्रद्धापूर्वं कृतो नमस्कारोऽपि बहुफलो भवति-बहूनि फलानि सौभाग्या-रोग्य-धन-धान्य-द्विपद चतुष्पदराज्य--स्वर्गादीनि संपधन्ते । 'प्रणामः' अत्र एकवचनं च इदं ज्ञापयति-यदि एकः प्रणामोऽपि बहुफलो भवति तदा किं च ते बहुशः प्रयुक्ताः ? इति । पुनस्तव प्रणामकरणेन किं भवति ? इत्याह-'जीवाः' प्राणिनो नरतिर्यक्षु दुखदौर्गत्यं न प्राप्नुवन्ति । नराश्च तिर्यचश्व इति द्वन्द्वे नरतियचस्तेषु तत्रोत्पन्ना जीवा दुःखं शारीरं मानसं च । दुर्गतस्य भावो दौर्गत्यं दारिद्रयमित्यर्थः । अत्र समाहारद्वन्द्वे कृते दुःखदौर्गत्यं, अयं अभिप्रायः-यदि कथंचित् नरेषु जीवा उत्पद्यन्ते ते नमस्कारकर्तारस्तदा हि रोगादिरहितत्वेन सद्यः संपघमानसमीहितार्थतया च न शारीरमानसदुःखभाजो भवेयुः, ऋद्धिसमृद्धितया च न जातु दारिद्रयेण उपदूयन्ते । तिर्यक्षु च उत्पद्यमानाः कमनीयकनकरत्नचिन्तामणिकल्पद्रुमपट्टतुरंगमजयकुंजरादिभावं आपद्य ते तान् तान् पूजाप्रकारान् लभन्ते, परं न दुःखदौर्भाग्यं । पाठान्तरे च 'दुखदोहग्ग'मिति, दुःखं च दौर्भाग्यं च दुःखदौर्भाग्यं । ननु ये प्रणामं कुर्वन्ति तीर्थकरस्य ते सम्यग्दृष्टय एव भवन्ति, सम्यग्दृष्टयश्च देवेष्वेव उत्पद्यन्ते “सम्मत्तंमि अलद्धे विमाणवजं न बंधए आउं" इति वचनात् , ततो 'नरतिर्यक्षु' इति कथमुक्तं ? उच्यते-अरे ! कदाचित् पूर्वबद्धायुष भवपारंपर्येण नरेषु तिर्यक्षु च उत्पद्यन्ते परं न दुःखदौर्भाग्यं प्राप्नुवन्ति, भगवत्प्रणामप्रभावसामर्थ्यात् , अपिशब्दोऽत्र विस्मये, विस्मयश्च एवम्-किल नरेषु तिर्यक्षु च दुःखदौर्गत्ययोः अभावो दुर्घटः इति परं तत्रापि तयोरभावः स्यात् । तथा पार्श्वयक्षादिस्तवपक्षे च एवं ज्ञेयम्-तिष्ठतु दूरे मन्त्रः तव पार्श्वयक्षस्य १ पावत्याः २ धरणेन्द्रस्य ३ च प्रणामो बहुफलो भवति । “णम् प्रहृत्वे शब्दे च" (पा० धा० १००६) प्रणमनं प्रणामः प्रहत्वं प्रवीभावः प्रसादाभिमुख्यमिति यावत् । अत्र तवेति कर्तरि षष्ठी, भगवत्पक्षे च कर्मणि, तथा प्रह्वीभावमात्रादेव नराः तिर्यंचः नरःतिर्यंचः नृपशवः पशुप्राया बालगोपालकृषीबलादयस्तेष्वपि मध्ये जीवा न प्राप्नुवन्ति दुःखदौर्गत्यं, ते हि प्रायो दुःखिता एव उपलभ्यन्ते केवलं त्वत्प्रसादात्तेऽपि निरन्तर सुखिता एव स्युरिति गाथार्थः । अस्यां गाथायां वन्ध्याशब्दापहं क्षेम, मृतवत्सानां अपत्यजीवनं, काकवन्ध्यादोषप्रमोषिबालपीडानिवारणं, दुर्भगानां सौभाग्यावहं, अपस्मारदोषापहारि च यंत्रं, एतानि यंत्राणि सूचितानि संति परं तानि सर्वाणि गुरुगम्यानि ज्ञेयानि ॥ इति तृतीयगाथार्थः ॥३॥ अथ चतुर्थगाथा
तुह सम्मत्ते लद्धे, चिंतामणिकप्पपायवन्भहिए।
पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥४॥ व्याख्या हे श्रीपार्थ ! तव सम्यक्त्वे विशिष्टप्रणामात्मके देवादितत्वत्रयनिश्चयरूपे लब्धे सति जीवा अविघ्नेन अजरामरं स्थानं मुक्तिं प्राप्नुवन्ति । विघ्नानामभावोऽविघ्न इत्यव्ययीभावः, तेन अविघ्नेन अजरामरं इत्यत्र न विद्यते जरा यत्र तत् अजरं, न म्रियते अस्मिन्निति अमरं 'बाहुलकादल्' अजरं च तत् अमरं च अजरामरं, विशेषणकर्मधारयः। किंविशिष्टे सम्यक्त्वे चिन्तामणिकल्पपादपाभ्यधिके-चिन्तामणिः चिन्तितार्थप्रदायी देवता
For Private And Personal Use Only