SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्सरणस्तवः। दृश्यन्ते, स च सामर्थ्यात् कमठमुनिः, तस्य वृष-धर्म लौकिकैर्धर्मतया गृह्यमाणत्वात् पञ्चाग्नितपश्चर्यालक्षणं निर्नाशयतीति यः स काष्ठान्तर्दह्यमानसर्पदर्शनेन मानभ्रष्टकरणात्तस्य, अनेन विशेषणेन श्रीपार्श्वस्य गृहस्थावासः सूचितः । पुनः किंविशिष्टं पार्श्व ? 'मंगलकल्लाणआवास', मंगलानि आपदुपशमरूपाणि, कल्याणानि च संपदुत्कर्षरूपाणि, तेषां आवास इव आवासः क्रीडास्थानं । अयं च स्तवः श्रीपार्श्वनाथसंनिधिभिः पाश्चयक्ष १ पमावती २ धरणेन्द्रैः ३ अधिष्ठितः । ततः एतेषां पार्श्वयक्षादीनां त्रयाणामपि व्याख्यानं कर्तुं युक्त । अतः पूर्व पाश्चयक्षव्याख्यानम्-अहमिति शेषः पाच पार्श्वयक्षं वन्दे अभिवादयामि "वद अभिवादनस्तुत्योः” इत्युक्तत्वात्, किंविशिष्ट पार्थ ? उपसर्गहरं सम्यग्दृष्टीनां विघ्नोपशमकर्तारम् १। तथा पाशा पद्मावतीं वन्दे,पाशोऽस्या वामहस्ते अस्तीति अभ्रादित्वात् मत्वर्थीये अप्रत्यये पाशा तां पाशा । किंविशिष्टां पाशां ? काम्यघनमुत्का काम्यः कमनीयो घनः शरीरं तेन करणभूतेन मुद् हर्षोऽर्थात् द्रष्टुनराणां यस्याः सकाशात् सा काम्यघनमुत्का दिव्यवषुषा लोकानां हर्षजनका इत्यर्थः तां २।तथा 'विषधरविषनिर्नाश' धरणेन्द्रं वन्दे अभिवादयामि, विषं पानीयं धरतीति विषधरो मेघ अर्थात्कमठाऽसुरसंबंधी, तस्य विषं जलं निर्नाशयतीति निजफणरूपच्छत्रधरणेन वारयतीति विषधरविनिनाशस्तं वि० । किंविशिष्टं धरणेन्द्र 'मंगलकल्लाणआवास' अर्थः प्राग्वत् । अथवा मंगलकल्याण श्रेयस्करणप्रगुणा या आज्ञा भगवच्छाशन तया आ-समंतात् वासो भावना यस्य सः तं मं० कल्याणकारिभगवदाज्ञाभावितमानसमित्यर्थः ३ । इति अर्थत्रयकरणं । अस्यां च गाथायां प्रथमायां जगद्वालम्यकर, सौभाग्यकर, भूतादिनिग्रहकर, क्षुद्रोपद्रवद्रावणमिति[मित्यादि] यंत्राष्टकं, पार्श्वयक्षयक्षिण्यादिमन्त्राश्च सन्ति । इति प्रथमगाथार्थः ॥१॥ विसहरफुलिंगमंतं, कंठे धारेइ जो सया मणुओ। तस्स गहरोगमारी, दुट्ठजरा जंति उवसामं ॥२॥ .. व्याख्याः-यो 'मनुजो' मनुष्यः, अथवा मनुगो मान्त्रिकः, मनुमन्त्रस्तं गच्छति “सर्वे गत्यर्था ज्ञानार्थाः" इति वचनात् जानातीति व्युत्पत्तेः । 'विषधरफुलिंगमन्त्रं' 'विसहर'त्ति 'फुलिंग'त्ति शब्दानां गर्मितत्वात् विषधरफुलिंग इति नाम, स चासौ मंत्रश्च मनसस्त्राणयोगात् मन्त्रणाद्वा गुप्तभाषणात् विषधरफुलिंगमंत्रस्तं भगवन्नामगर्भितं अष्टादशाक्षरात्मक, अथवा आदौ त्रैलोक्यबीजकमलाईबीजैरते च तत्त्वप्रतिपातबीजाभ्यामष्टाविंशतिवर्णात्मकमन्त्रविशेषं । "नमिऊणपासविसहरवसहजिणफुलिंग"इति अष्टादशाक्षरात्मको मन्त्रः, अग्निबीजं ओंकारः, सकलभुवनबीजं ह्रींकारः, पवनशब्देन वायुबीजं स्वा, नभःशब्देन आकाशवाची हाशब्दः । अत्र त्रीणि तत्त्वानि अग्नि १ वायु २ आकाश ३ रूपाणि, 'ॐ ह्रीं हूँ। मम स्वाहा, बीजत्रयैः सह २८ वर्णात्मको मन्त्रः तं 'सदा' सर्वकालं धारयति धत्ते कंठस्थं करोति इति यावत् । तस्य किं भवति ? इत्याह-तस्य निरन्तरं जापकर्तुः प्रहरोगमारिदुष्टज्वरा उपशमं आर्थत्वात् इस्वाभावः उपशमनं गच्छन्ति यान्ति । ग्रहाश्च भूतप्रेतराक्षसादयः सूर्यादयो वा अशुभगोचरवर्तिनः, रोगाश्च वातपित्तादयः, मारिश्च सर्वगं मृत्युलक्षणं अशिवं, दुष्टज्वराश्च तापज्वरादयः, ततो द्वन्द्वे कृते ग्रहादयः । अस्यां द्वितीयगाथायां च प्रथमं विसहरफुलिंगमंत्रं यन्त्रं बृहचक्राभिधानं सर्वसंपत्करं, द्वितीयं तु चिन्तामणिकरं चिन्तातीतार्थसाधकं नृपवह्नितस्करशाकिनीप्रभृतिक्षुद्रोपद्रवनिवारणं न्यस्तं । अस्यां गाथायां पार्श्वयक्ष १ पद्मावती २ धरणेन्द्रस्तवपक्षे तुल्यैव व्याख्या, प्रस्तुतमन्त्रस्य एतत्त्रयेण अधिष्ठितत्वात्, इति द्वितीयगाथार्थः ॥२॥ १.ॐ ह्रीं श्रीं क्षिप २ मम स्वाहा, अष्टाविंशतिवर्णैः सह' इति प्रत्यन्तरे पाठः । . ...... For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy