SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्मरणस्तपः। भीमभवकाणणंमि अ, पंसिअगुरुवयणरयणसंवोहो। नीसेससत्तगुरुओ, सूरी जिणवल्लहो जयह ॥१६॥ व्याख्या-जिनवल्लभसूरिः हरिवत् सिंहवत् भीमभवकानने जयति। सर्वोत्कर्षेण वर्तते । भीमो-रौद्रो भय एव संसार एव काननं तस्मिन् भीमभवकानने । पूर्व गुरुपक्षे वर्णन-किं० जिनवल्लभः ? कृतश्रावकसत्याशः कृताः श्रावकाणां सत्या शोभना आशा मनोरथाः सुखधर्मनिर्वाहादिका येन सः कृत०? पुनः किंवि० 'सारांगभग्नसंदेहः' साराणि प्रधानानि यानि अंगानि आचारांगादीनि तैर्भमाः स्फेटिता सन्देहाः संशया देवगुरुतत्वविषया येन सः । पुनः किं० जिनवल्लभसूरिः ? 'गतसमयदर्पदलनः' गतो भ्रष्टः समयः सिद्धान्तो येभ्यः ते गतसमयाः तेषां दर्प औद्धत्य दलयतीति गत० । पुनः किंविशिष्टो जिनवल्लभसूरिः ? आस्वादितप्रवरकाव्यरसः आस्वादितः प्रवरः प्रधानः काव्यानां रसो येन सः आ० महाकवित्वात् । पुनः किं० जिनवल्लभसूरिः ? 'दर्शितगुरुवचनरत्लसन्दोहः' दर्शितो गुरुवचनान्येव रत्नानि तेषां गुरुवचनानां संदोहः समूहो येन सः दर्शित० । पुनः किं० 'निःशेषसत्त्वगुरुकः' निःशेषसत्त्वेषु गुरुकः जगत्पूज्यत्वात् । हरिपक्षे तु एवं व्याख्या-किंवि० हरिः ? कृतश्चापदसंत्रासः, कृतः श्वापदानां मृगगजानां त्रासो येन सः कृतः । पुनः किं० हरिः ? सारंगभमदेहः सारंगाणां मृगाणां भमाः सं सम्यक् देहाः शरीराणि येन सः सा० । पुनः किंविशिष्टो हरिः ? 'गजसमददर्पदलनः' सह मदेन वर्तन्ते ये ते समदाः । समदाश्च ते गजाश्च समदगजास्तेषां दर्पस्य दलनः प्राकृतत्वेन विशेषणव्यत्ययो न दोषाय । पुनः किं० हरिः ? 'आस्वादितप्रवरकव्यरसः' आस्वादितः प्रवरः प्रधानः व्यस्य मांसस्य रसो येन सः आ० । पुनः किंवि० हरिः ? 'दर्शितगुरुवदनरदनसन्दोहः' दर्शितः-प्रकटीकृत गुरुवदने प्रसारितत्वात् बृहन्मुखे रदनानां सन्दोहः समूहो येन स दर्शित० पुनः किंवि० हरि: ? 'निश्शेषसत्त्वगुरुकः' निश्शेषसत्त्वेषु समस्तप्राणिषु गुरुको गरिष्ठः नि० । अत्र श्लेषालंकारः, इति गाथाद्वयार्थः ॥१६॥ पुनः श्रीजिनवल्लभसूरिमेव गाथाद्वयेन अष्टापदोपमानेन स्तुवन्नाह उवरिहिअसचरणो, चउरणुओगप्पहाणसचरणो। असममयरायमहणो, उड्डमुहो सहइ जस्स करो ॥१७॥ दंसियनिम्मलनिचल,-दंतगणोऽगणिअसावउत्थभओ। गुरुगिरिगुरुओ सरहव्व, सूरी जिणवल्लहो होत्था ॥१८॥ व्याख्या-सूरिः जिनवल्लभः 'होत्था' इति अभवत् । क इव ? शरभ इव अष्टापद इव । तत्र प्रथमं गुरुवर्णनमाह-किविशिष्टः जिनवल्लभसरिः ? 'उपरिस्थितसच्चरणः'उपरिस्थितं सर्वेभ्य उपरिस्थितं सर्वोत्तमत्वात् सत्-प्रधानं चरणं चारित्रं यस्य स उपरिस्थितसञ्चरणः । पुनः किंविशिष्टः जिनवल्लभसूरिः ? चतुरनुयोगप्रधानसञ्चरणः, चत्वारो ये अनुयोगाः द्रव्यानुयोग १ कालानुयोग २ गणितानुयोग ३ धर्मानुयोग ४ नामानः, तैः प्रधान निरवचं संचरणं प्रवर्तनं यस्य स चतु० । पुनः किंविशिष्टः जिनवल्लभसूरिः ? 'असममदराजमहनः' । असमो मदो गर्वो येषां ते असममदा गर्वोद्धता ये राजानः तैः कृतं महनं पूजनं यस्य सः असम ० । अथवा अशमः क्रोधः, मदः अहंकारः, रागः स्त्र्यादिषु अभिष्वंगस्तेषां मथनः असममदराजमथनः । सः कः ?, यस्य गुरोः करो हस्तः सहति शोभते । किविशिष्टः करः ।। ऊर्ध्वमुख उच्चैर्मुखो व्याख्यानसमये मुक्तिमार्गदर्शनेन । पुनः किंविशिष्टः जिनवल्लभसूरिः ? दर्शितनिर्मलनिश्चलदान्तगणः दर्शितो निर्मलो निष्पापो निश्चलः सम्यक्त्रतपालनपरो दान्तानां दमवतां साधूनां गणः समूहो येन स दर्शि० सुसाधुजनपरिवृतत्वात् । पुनः किंविशिष्टः जिनवल्लभसूरिः । 'अगणितश्रावकोत्थभयः' अगणितं श्रावकेभ्य उत्थं भयं येन स अग० । पुनः स०६ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy