________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्षाचार्यविरचितः अथ श्रीजिनचन्द्रयतीश्वरं स्तुवन्नाह--
सुकइसपत्तकित्ती, पयडिअगुत्ती पसंतसुहमुत्ती।
पहयपरवाइवित्ती, जिणचंदजईसरो मंती ॥१२॥ व्याख्या-जिनेश्वरसूरीणां पट्टे जातः श्रीजिनचन्द्रयतीश्वरो जीयादिति शेषः । किंविशिष्टो जिनचन्द्रयतीश्वरः । 'सुकवित्वप्राप्तकीर्तिः' सुकवित्वेन संवेगरंगशालादिग्रन्थकरत्वेन प्राप्ता कीर्तिर्येन सः । पुनः किंविशिष्टो जिन । 'प्रकटितगुप्तिः' प्रकटिता भव्येभ्यः (अग्रे) प्रकाशिता गुप्तयो मनोवाक्कायगुप्तयो येन सः प्र० । पुनः किंविशिष्टो जिन० । 'प्रशान्तशुभमूर्तिः' प्रशांता कषायरहिता शुभा द्वात्रिंशत्पुरुषलक्षणसहिता मूर्तिस्तनुर्यस्य सः प्र०। पुनः किंविशिष्टो जिन० 'प्रहतपरवादिदीप्तिः' प्रहता निरस्ता परवादिनां दीप्तिस्तेजो येन सः प्र० । पुनः किंविशिष्टो जिन० ? मंत्री मंत्राः सूरिमन्त्रादयो विद्यन्ते यस्य सः मंत्री। द्वितीयपक्षे मन्त्री अमात्यो जीयात् । मन्त्रा राज्यनिर्वाहकारका आलोचना विद्यन्ते यस्य सः मन्त्री। किंविशिष्टो मन्त्री ? सुकृतित्वप्राप्तकीर्तिः सुकृतित्वेन राजनीत्यां या स्थितिः प्रोक्ता तस्याः करणत्वेन प्राप्ता कीर्तिर्येन सः । पुनः किंविशिष्टो मन्त्री ? 'प्रकटितगुप्तिः' प्रकटिता-विस्तारिता गुप्तिः प्रजानां गोपनं रक्षाकरणं येन स प्र० । पुनः किंविशिष्टो मन्त्री ? 'प्रशान्तशुभमूर्तिः' प्रशान्ता सौम्या शुभा अक्रूरा मूर्तिर्यस्य सः प्र०। पुनः किंविशिष्टो मन्त्री ? प्रहता अपास्ता परदेशीयानां राज्ञा दीप्तिः प्रगल्भता येन सः प्र० । अयं श्लेषालंकारः ॥१२॥ अथ नवांगीवृत्तिकारकं श्रीअभयदेवरिं गाथाद्वयेन स्तुवन्नाह--
पयडिअनवअंगसुत्तत्थरयणकोसो पणासियपओसो। भवभीयभविअजणमणकयसंतोसो विगयदोसो ॥१३॥ जुगपवरागमसारपरूवणाकरणबंधुरो धणियं ।
सिरिअभयदेवसूरी, मुणिपवरो परमपसमधरो ॥१४॥ व्याख्या-श्रीजिनचन्द्रसूरिपट्टे श्रीअभयदेवसूरिः जीयादिति शेषः । किंविशिष्टः अभयदेवसूरिः ? 'पयडिअनवअंगसुत्तत्थरयणकोसो' प्रकटितः प्रकटीकृतः नवांगानां स्थानांगादीनां सूत्रार्था एव रत्नानि तेषां कोषो भांडारो येन सः प्र० । नवांगीवृत्तिकरणात् । पुनः किंविशिष्टः श्रीअभयदेवसूरिः ? प्रणाशितः प्रद्वेषो येन सः प्र०। पुनः किंविशिष्टः श्रीअभयदेवसूरिः 'भवभीअभविअजणमणकयसंतोसो' भवात् संसारात् भीता ये भव्यजनास्तेषां मनसि कृतः जनितः संतोषो येन सः भ० सिद्धान्तार्थामृतश्रावणेन । पुनः किंविशिष्टः श्रीअभयदेवसूरिः ? 'विगतदोषो' विगता दोषा यस्मात् स विगतदोषः आचामाम्लादिदुष्करतपःकरणेन शुद्धचारित्रपालनात् । पुनः किंविशिष्टः श्रीअभयदेवसूरिः ? 'युगपवरागमसारपरूपणाकरणबन्धुरः' युगे प्रवरा ये आगमा आचारांगादयस्तेषां सारप्ररूपणा शुद्धप्ररूपणा तस्याः करणं तेन बन्धुरो मनोहरो 'धणि' अत्यर्थ । 'धणिय' शब्दः अत्यर्थे देशीयः । पुनः किंविशिष्टः श्रीअभयदेवसूरिः ? 'मुणिपवरो' मुनिषु प्रवरो नवांगीवृत्तिकरणेन महागीतार्थत्वात् । पुनः किंविशिष्टः श्रीअभयदेवसूरिः ? 'परमप्रशमधरः' परमं प्रशमं उपशमं धरतीति परमप्रशमधरः, इति गाथाद्वयार्थः ॥१३-१४॥ अथ स्वगुरुं श्रीजिनवल्लभसूरिं गाथाद्वयेन स्तुवन्नाह
कयसावयसत्तासो, हरिव्व सारंगभग्गसंदेहो। गयसमयदप्पदलणो, आसाइयपवरकव्वरसो॥१५॥
For Private And Personal Use Only