________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवः
त्र्यम् आम्नायः सुगुरुजनपारतंत्र्यं तत् । किं कृत्वा ? 'तं चेव' सुगुरुजनपारतन्त्र्यं प्रणम्य । अत्र 'च' शब्दः समुच्चययार्थे एवं प्रणम्य १ स्तवीमि चेति २ 'एव' शब्दोऽवधारणार्थे स च अन्यस्तोतव्यत्यागेन तदेव सुगुरुजनपारतन्त्र्यं नान्यदिति, तन्निर्देशः प्राकृतत्वात् । किंविशिष्टं सुगुरुजनपारतन्त्र्यं ? 'मयरहिअं,' मदा अष्टविधास्तै रहितं । पुनः किंविशिष्टं ? 'गुणगणरयणसायरं' । गुणा - ज्ञानादयो मूलोत्तरविषया वा । तेषां गणाः समूहास्ते एव रत्नानि तेषां सा लक्ष्मी तस्या आयो लाभः गुणगणरत्नसायः तं राति ददातीति अर्थात्प्रणमतां गुणगणरत्नसा यरं तत् । अत्र “आतोऽनुपसर्गेकः " पा. ३|२| ३ इति सूत्रेण 'क' प्रत्यये सिद्धं । पुनः किंविशिष्टं सु० ? 'सायर' दरो भयं न दरोऽदरो दराभावः, सह अदरेण वर्तते यत्तत् सादरं । तत् सुगुरुपारतन्त्र्यं किमिव उदधिमिव समुद्रमिव । अत्र दृष्टान्त - दाष्टन्तिकयोर्लिंगभेदो न दोषाय “लिंगभेदं तु मेनिरे" इति वचनात् । उदधिपक्षे किंविशिष्टं उदधिं ? मयरहिअं मकराणां मत्स्यानां हितकारकम् । पुनः किंविशिष्टं उदधिं ? 'गुणगणरयणसायरं' । गुणाः शूलादिरोगापहारिण ऋद्धिवृद्धिसोभाग्यादिजनकाश्च तेषां गणः स विद्यते येषु रत्नेषु तानि गुणगणरत्नानि कर्केतनादीनि षोडशविधानि पुनः सा च लक्ष्मीः तयोराकरः स्थानं गुणगणरत्नसाकरस्तं गु० । पुनः किंविशिष्टं उदधिं ? 'सायरं' सातं सुखं पोतवणिजां अद्भुतधनोपार्जनादिना राति ददातीति सातरं । अत्र उपमालंकारः ॥ १ ॥
३७
अथ येषां नाममात्रस्मरणेन रोगाः प्रणश्यन्ति तान् सुगुरून् श्रीसुधर्मस्वामिप्रमुखान् साधारणविंशतिविशेषणोपेतान् गाथापञ्चकेन स्तुवन्नाह
निम्महिअमोहजोहा, नियविरोहा पणट्टसंदेहा । पणयंगिवग्गदाविअ, - सुहसंदोहा सुगुणगेहा ॥२॥ पत्तसुजहत्तसोहा, समत्थपरतित्थिजणियसंखोहा । पडिभग्गलोहजोहा, दंसियसुमहत्थसत्थोहा ॥३॥ परिहरिअसत्तबाहा, हयदुहाहा सिर्वबतरुसाहा । संपाविअसुलाहा, खीरोदणिहिव्व अग्गाहा ||४|| सगुणजणणिअपुज्जा, सज्जोनिरवनगहिअपव्वज्जा । सिवसुहसाहणसज्जा, भवगुरुगिरिचूरणे वज्जा ॥५॥
अज्ज सुहम्मष्पमुहा, गुणगणनिवहा सुरिंदविहिअमहा । ताण तिसंझं नामं नामं न पणासई जिआणं ॥ ६ ॥
व्याख्या - अत्र पञ्चपदयोजना कार्या, सा चैवम्- 'ताणंति' तेषां आर्यसुधर्मप्रमुखाणां नामं - अभिधानं स्मर्यमाणमिति शेषः, 'त्रिसन्ध्यं' प्रभाते मध्याह्ने सन्ध्यायां च आमं- रोगं जीवानां न प्रणाशयतीति न, अपितु प्रणाशयत्येव । द्वौ नजौ प्रकृतमर्थं गमयत इति न्यायात् । यत्तदोर्नित्याभिसम्बन्धात् तेषां केषां ? ये आर्य
For Private And Personal Use Only
धर्मप्रमुखाः, एवंविधा आचार्या अभूवन् । आर्यसुधर्मः पञ्चमगणधरः प्रमुखः आदिः येषां ते आर्यसुधर्मप्रमुखाः श्रीजंबूस्वामि--प्रभवस्वामि- शय्यं भवस्वामि- यशोभद्र - संभूतविजय – भद्रबाहु - स्थूलभद्र - आर्यसुहस्तिसूरि-वज्रस्वामि- श्रीहरिभद्रसूरिप्रभृतयः । एते सर्वेऽपि कीदृशा: : 'निर्मथितमोहयोधाः ' निर्मथितो मोह एव योधः सुभटो यैस्ते निर्मथितमोहयोधाः । पुनः कीदृशाः ! निहतविरोधाः निहतो नितरां अतिशयेन हतो विरोधो यैस्ते निहतविरोधाः । पुनः कीदृशाः ? प्रणष्टसन्देहाः प्रणष्टः सन्देहः- संशयो येषां ते । पुनः कीडशाः १ प्रणतांगिवर्गदापितसुखसन्दोहाः प्रणतानां अंगिनां वर्गः समूहः प्रणतांगिवर्गः तस्य दापितः