________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समानम् रति क्रीडां करोति इति रतिकरं । तथा चतुराणां मनोहरतीति चतुरमनोहरं । एवंविधं सुन्दरं दर्शनं रूपं यासां ताः रतिकरचउरमनोहरसुन्दरदर्शनिकास्ताभिः ॥२७॥ चित्राक्षरा नाम छन्दः। पुनः किंविशिष्टाभिः देवसुन्दरीभिः ? 'पायवंदियाहिं' पादौ चरणौ वन्दिकाः प्रणामिकाः पादवन्दिकास्ताभिः । पुनः किं० देव० ? 'केहि केहिं वी मंडणोड्डणप्पगारएहिं संगयं गयाहिं' कैः कैः अतिशयरूपैः 'वी' अत्र दीर्घत्वं प्राकृतवशात् । मंडणोडुनप्रकारकैः संगतांगताभिः मंडनानां यानि उहुनानि स्थापनानि तेषां प्रकारकैः प्रशस्तैर्विशेषैः 'प्रशंसायां कन्' । संगतानि अंगानि यासां ताः संगतांगास्ताभिः ।। किं विशिष्टैः मण्डनोडुनप्रकारकैः ? 'अवंगतिलयपत्तलेहनामएहिं' । अपांगा नेत्रप्रान्ताः, तथा तिलका विशेषकाः पत्रलेखाः प्रतीतास्ता नामानि येषां ते तैः उ० । किं० मंडनो० ? 'चिल्लएहि' चिरलकैः नीलैः [लीनैः] । पुनः किंविशिष्टाभिः देवसुन्दरीभिः ? 'भत्तिसंनिविट्ठवंदणागयाहिं' । भक्त्या संनिविष्टाः संस्थिताः भगवदमिमुख्यः तासां वन्दनं तस्मै आगताः भक्तिसंनिविष्टवन्दनागताः ताभिः ।। नाराचनाम छन्दः॥२८॥२९॥
अथ पद्यद्वयेन श्रीशान्तिनाथं स्तुवन्नाहथुअवंविअस्सा रिसिगणदेवगणेहिं तो देवबहूहिं पयओ पणमिअस्सा। जस्स जगुत्तमसासणअस्सा, भत्तिवसागपिडिययाहि । देववरच्छरसावहुयाहिं, सुरवररइगुणपंडिययाहिं ॥३०॥ भासुरयं ।। पंससहतंतितालमेलिए,तिउक्खराभिरामसहमीसए कए अ। सुइसमाणणे अ सुखसजगीअपायजालघंटिआहिं। वलयमेहलाकलावनेउराभिरामसहमीसए कए अ, देवनहिआहिं हावभावविभमप्पगारएहिं । नच्चिऊण अंगहारएहिं विआ य जस्स ते सुविकमा कमा । तयंतिलोयसव्यसत्तसंतिकारयं, पसंत-सव्वपावदोसमेस हं नमामि संतिमुत्तमं जिणं ॥३१॥ नारायओ॥
व्याख्याः--अहं 'तय' तकं "प्रशंसायां कन्" शान्ति नमामि। इति द्वितीयपद्यान्ते उक्तिः। किंवि० शान्ति ? तिलोयसव्वसत्तसंतिकारयं' । त्रिलोकस्य-त्रिभुवनस्य सर्वेषां सत्त्वामां-प्राणिनां शान्तिकारकम् । पुनः किं० शान्तिम् ? 'पसंतसव्वपावदोसं' । प्रशान्ताः क्षयं नीताः सर्वे पापदोषा येन स तं प्र० । अत्र निर्विभक्तिको निर्देशः प्राकृतत्वात् । पुनः किं०वि०शान्ति ? 'मे सहमे मम सहं समर्थ सर्वपापपुण्यक्षयाय इति गम्यते। अथवा 'पसंतसव्वपावदोसं' इति विभक्तिरक्षणे एषः अहं शान्ति नमामि इत्युक्तिलापनिका। पुनः किं० शान्ति ? उत्तम प्रधानं । पुनः किं० शान्तिम् ? जिन रागद्वेषविजेतारं तकं कं यस्य 'ते' तव क्रमौ पादौ देवनर्तकीभिः वंदितौ । किं विशिष्टौ पादौ । सुविक्रमौ सुष्टुपराक्रमौ । किं० यस्य 'रिसिगणदेवगणेहिं थुअवंदिअस्सा' । ऋषीणां गणाः ऋषिगणा देवानां गणाः देवगणास्ततो द्वन्द्वे कृते ऋषिगणदेवगणास्तैः स्तुतवन्दिस्य स्तुतश्चासौ वन्दितश्च स्तुतवन्दितस्तस्य दीर्घत्वं प्राकृतत्वात् । तो ततः, 'देववहिं' देववधूभिः । पुनः कि० ? यस्य 'जगुत्तमसासणयस्स'। जगतो लोकस्य जगति वा उत्तम प्रधानशासनं दर्शन यस्य सः जगदुत्तमशासनस्तस्य,सर्वत्र प्राकृतत्वाहीर्घत्वम् । पुनः किं० यस्य । देववरच्छरसाबहुआहिं । देवानां वराप्सरस एव वरदेव्य एव वध्वो वनितास्ताभिः प्रणतकस्य । किं विशिष्टाभिः देव० । 'भत्तिवसागयपिडियाहिं' । भक्तेर्वशेन आगताभिः स ताभिः पिण्डितकाभिर्मिलिताभिः । अत्रापि प्रशंसायां कन् । पुनः किं०दे० । 'सुरवररहगुणपंडिअयाहिं ।' सुराग्ध वराश्च सुरवरास्तैः सहरतिरेव कीव मुणस्तस्मिन् पण्डितकाभिः । अत्रापि प्रशंसाया कन्॥३०॥ भासुरकं नामछन्दः ॥ देव
For Private And Personal Use Only