________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्वाचार्यविरचितम् पीणनिरंतरथणभरविणमियगायलाहिं,
मणिकंचणपसिढिलमेहलसोहिअसोणितडाहिं। परखिखिणिनेउरसतिलयवलयविभूसणिआहिं,
रइकरचउरमणोहरसुंदरवंसणियाहिं ॥२७॥ चित्तकखरा ॥ देवसुंदरीहिं पायवंदियाहि वंदिआ य जस्स ते सुविकमा कमा,
- अप्पणो निडालएहि मंडणोडणप्पगारएहि केहि केहिं वि अवंगतिलयपत्तलेहनामएहिं चिल्लएहिं संगयंगयाहिं, .
भत्तिसन्निविट्ठवंदणागयाहि हुँति ते वंदिया पुणो पुणो ॥२८॥नारायओ। तमहं जिणचंद, अजिअं जिअमोहं।
धुयसव्यकिलेसं, पयओ पणमामि ॥२९॥ नंविअयं ॥ व्याख्याः-तं अजित अहं प्रयतः सावधानभूतो वा सन् प्रणमामि। अथ चतुर्थपद्ये प्रथमपदे उक्तिलापनिका। किं० अजितं जिणचंद' जिनेषु केवलिषु चन्द्र इव चन्द्रः तेषु प्रधानत्वात् तं जि०। पुनः किंवि०अजित । 'जिअमोहं' जितः पराभूतो मोहो अज्ञानं येन स जितमोहस्तम् । पुनः किंवि० अजितम् ? 'धुअसव्वकिलेसं'। धुतः कंपितः सर्वः शरीरमनसम्बन्धिक्लेशो येन सः धुतसर्वश्लेशस्तम् । त कं ? 'जस्स ते सुविक्कमा कमा देवसुंदरीहिं पुणो पुणो वंदिआ, 'ते' तव क्रमौ चरणौ देवसुंदरीभिः-देवांगनाभिः वन्दितौ। 'पुनः' पुनः वारंवारं क्रमौ इत्यत्र "दोक्यणे बहुवयणमिति" प्राकृतवलात् द्वित्वेऽपि बहुवचनम्। कैः क्रमौ वन्दितौ इत्याह-'अप्पणो निडालएहिं', आत्मनः सम्बन्धिभिः ललाटकैः-मस्तकैः प्रधानललाटैः "प्रशंसायां कन् प्रत्ययः"। किंविशिष्टाभिः देवसुन्दरीभिः ? 'अंबरंतरवियारिणिआहिं', अंबरस्य आकाशस्य अन्तरं अंतरालं अम्बरान्तरं तस्मिन् अम्बरान्तरे विशेषेण चरितुं शीलं यासां ताः अम्बरंतरविचारणिकास्ताभिः। अत्र प्रशंसायां कन् प्रत्ययः । 'अम्बरन्तर' इत्यत्र हूखत्वं प्राकृतसूत्रत्वात्। पुनः किं० देवसुंदरीभिः ? 'ललियहंसबहुगामिणियाहिं'। ललितं हंसवधूवत् गन्तुं शीलाभिः । पुनः किं० देव० ? 'पीणसोणिथणसालिणियाहिं'। पीनाः पुष्टाः श्रोण्यश्च कट्यः स्तनाश्च पयोधराः पीनश्रोणिपयोधराः तैः शालितु शोभितुं शीलं यासां ताः पीनश्रोणिस्तनशालिनिकास्ताभिः । सर्वत्र प्रशंसायां कन् । एवमप्रेऽपि ज्ञेयम् । पुनः कि० देवसुंदरीभिः ? 'सकलकमलदललोअणिआहिं' । सकलानि-संपूर्णानि यानि कमलस्य-पद्मस्य दलानि-पत्राणि तानि इव लोचनानि यासां ताः सकलकमलदललोचनिकास्ताभिः स०। दीपकं नाम छन्दः ॥२६॥ पुनः किंविशिष्ठाभिः देवसुन्दरीभिः ? 'पीणनिरंतरथणभरविणमियगायलयाहिं'। पीना महांतो निरन्तरा घनाः स्तनानां पयोधराणां ये भराः प्राग्भाराः तैः विशेषेन नता गात्रलता यासां ताः पीननिरन्तरस्तनभरविनमितगात्रलताः ताभिः पी०। पुनः किं० देवसुंदरीभिः ? 'मणिकंचणपसिढिलमेहलसोहिअसोणितडाहिं'। मणयश्च कांचनं च मणिकांचनानि तैः कृताः प्रशिथिलाः प्रश्लथा या मेखलाः ताभिः शोभितानि शोमा प्राषितानि श्रोणीनां कटीनां तटानि यासां तां मणिकाञ्चनप्रशिथिलमेखलाशोभितश्रोणितटाः तामिः म०। पुनः किं० देवसुंदरीभिः ? 'वरखिखिणीनेउरसतिलयवलयविभूसणियाहिं' । वराश्च ताः प्रधानाश्च किंकिण्यश्च क्षुद्रघण्टिकाः च नू पुराश्च वरकिंकिणीनू पुराः, तथा सह तिलकैः वर्तन्ते यानि सतिलकानि यानि बलमानि कटकानि सतिलकक्लयानि तानि विशिष्टानि भूषणानि यासां ताः करकिकिणीन पुरसतिलकवळ्यक्भूिषणिकास्त्राभिः । पुनः किं० देवावरीमिः सरजस्वमोहरसुंबरदसणीयाहिं ।'
For Private And Personal Use Only