________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शाखम् .
सत्तमदसमसयंमिय, अट्ठारसमे संयंमि इय नचा। जिणवरवाणी सञ्चा, तं सुच्चा सद्दहेयध्वं ॥१२९॥
श्री भगवतीसूत्र ७ । १० । १८ । शतकेषु-" जस्सणं कोहमाणमायालोमा अवुच्छिन्ना जस्सणं संपराईया किरिया कजंति से गं उस्मुत्तमेव रीयति" ॥ इति वचनात् । अत्रवृत्तिः-उत्सूत्रमनाज्ञयैव इति व्याख्यातं ॥ " जस्स कोहमाणमायालोमा अवुच्छिन्ना तस्स णं इरियावहिया किरिया कजति से णं अहामुत्तमेव रीयति"। इति वचनात् । इति निद्राधिकारे किञ्चिल्लेखितम् ।। अत्र रहस्यमिदम्-अतीतकालेऽनन्तछद्मस्थसाधूनां निद्राकरणमभूत् , आगामिनि काले अनन्तानां छद्मस्थसाधूनां निद्राकरणं भविष्यति, वर्तमानकालेऽपि छद्मस्थानां निद्राऽप्यस्ति परं स्वतः कर्मोदयेनैव, नतु जिनोपदेशाद् विधिरूपात् । ये इत्थं वदन्ति वीतरागोपदेशविधि विना निद्रां कुर्वाणा यथाच्छन्दा इति, तान प्रति गोताथै रिति वक्तव्यम्-रात्रेस्तृतीययामादारात्परतो वा कारणमन्तरेण निद्रां कुर्वाणा यथाच्छन्दा एव, इति प्रमाणं कुर्वन्तु । अन्यच्च यः कोऽपि छद्मस्थः साधुरेकयामाधिकं समयमात्रमपि अहोरात्रमध्ये निद्रां न कुर्वीत तमेकं दर्शयन्तु कदाचिदेको दर्शितस्ततोऽन्ये सर्वऽपि साधवो यथाच्छन्दत्वाद विराधका एव, इति विचार्य यदचितं तदेव कार्यम् , गीताथै रित्यालिबंधनेन विज्ञतिविधानं मम फलेग्रहि कर्त्तव्यम् ।।
For Private And Personal Use Only