________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ३३
१
दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य 'धारणाय' संधारणार्थमिति सूत्रार्थः ||१२|| ततश्च- ' णमोक्कारेण' त्ति सूत्रं, नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन कृत्वा जिनसंस्तवं "लोगस्सुङजोअगरे" इत्यादिरूपं ततो न यदि पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्त मेष कुर्यात् यावदन्य आगच्छन्ति यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् 'क्षणं' स्तोककालं मुनिरिति सूत्रार्थः ॥ ९३ ॥ ' बीसमंत ' ति सूत्रं, विश्राम्यन्निदं चिन्तयेत् परि णसेन चेतसा,-' हितं' कल्याणप्रापकमर्थ - पक्ष्यमाणं, किंषिशिष्टः सन् ? - भात्रलाभेन - निर्जरादिनाऽर्थोऽस्येति लाभार्थिकः, यदि 'मे' मम अनुग्रहं कुर्युः साधवः प्रातुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थ: ॥ ९४ ॥ एवं संचिन्त्योचितवेलायामाचार्य मामन्त्रयेद, यदि गृह्णाति शोभनं नोचे वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरम् अथ भणति स्वमेष प्रयच्छ, अत्रान्तरे - 'साहो' ति सूत्रं साधैस्ततो गुर्षनुज्ञातः सन् 'चिमणं' ति मनः प्रणिधानेन निमन्त्रयेत् 'यथाक्रमं ' यथा रत्नाधिकतया महणौचित्यापेक्षया वालादिक्रमेणेत्यन्ये, यदि तत्र 'केचन' धर्मवान्धवाः 'इच्छेयुः' अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचित्तसंविभागदानेनेति सूत्रार्थ ||१५|| अह कोइति सूत्रं, अथ कश्चिन्नेच्छेत् साधुस्ततो भुञ्जीत 'एकको' रागादिरहित इति कथं भुञ्जीतेत्याह'आलोके भाजने' पक्षिकाच पोहाय प्रकाशप्रधाने भाजन इत्यर्थः 'साधुः' प्रव्रजितः 'यतं' प्रयत्नेन तत्रोपयुक्त: 'अपरि शार्ट' हस्तमुखाभ्यामनुज्झन् इति सूत्रार्थः ॥९६॥ तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा ! एअलद्धमन्नत्थ पत्तं महुघयं व भुंजिज्ज संजए ॥९७॥
1
6
३
,
For Private And Personal Use Only