________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी ।
उपपन्नः । अन्यथा यथैवा भावधर्मयोगे प्यस वस्या तथैव भावधर्म योगेपि सन्नस्यात् ।
ननु -- घटे पटकपासत्वं नाम घट निष्ठाभाव प्रतियोगित्वम् । तच्च पट धर्मः । यथा भूतले घटो नास्ती स्यत्र भूतलनिष्ठाभाव प्रतियोगित्वमेव भूतले नास्तित्वं, तच्च घटधर्मः । इतिचेन्न; - तथापि पररूपाभावस्य घटधर्मत्वाविरोधात, घटाभावस्य भू. तल धर्मत्ववत् । तथाच घटस्य भावाभावात्मकत्वं सिद्धम् । कथंचि तादात्म्य लक्षणसम्बन्धेन सम्बन्धिन एव स्वधर्मत्वात् ।
नन्वेवरात्या घटस्य भावाभावात्मकत्वे सिद्धपि घटोस्ति पटो नास्तीत्येव वक्तव्यम् । पटाभाव प्रतिपादनपर वाक्यस्य तथा प्र. वृत्तेः । यथा भूतले घटोनास्तीति घटाभावप्रतिपादन परं वाक्यम् प्रवर्तते - नतु भूतलं नास्तीति , तथा प्रकृते पटाभावस्य घटास्मकत्वेपि पटोनास्तीत्येव प्रयोगो युक्तः । अभावबोधकवाक्यस्य प्र तियोगिप्रधानत्वात् । यथा घटप्रागभावस्य कपालात्मकत्वेपि कपालदशायां घटोभविष्यतीत्येव प्रागभाव प्रतिपादकः प्रयोग दृष्टः, नतु कपालोभविष्यतीति । यथा च घटध्वंसस्यो तर कपालात्मकत्वीप घटानष्टइत्येव प्रयोगः, तथा प्रकृतेपि । इतिचेदुच्यते; - घटस्य भावाभावात्मकत्वे सिद्धे ऽस्माकं विवादो विश्रान्तः, समाहि तसिद्धेः ! शब्दप्रयोगस्तु पूर्वपूर्वप्रयोगानुसारेण भविष्यति । नहि पदार्थ सत्ताधीन शब्दप्रयोगः । तथाहि - देवदत्तः पचती. ति प्रयोगोवर्तते । तब देवदत्तपदार्थ शरीरंवा ? आत्मावा? शरीर विशिष्टामावा ? आये देवदत्तस्थ शरीरं पचतीति प्रयोगापत्तिः ।
For Private and Personal Use Only