________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुकावळी ।
सकलकालासम्बन्धित्वप्रसंगेना वस्तुत्वापत्तिः । कालसम्बन्धित्वमेव हि वस्तुत्वं । एवञ्च घटो घटत्वेनास्ति , पट वेन नास्ति, मृद्रव्ये णास्ति, सुवर्णद्रव्येण नास्ति , स्वक्षेत्रादस्ति, परक्षेत्रानास्ति, स्वकालादस्ति, परकालानास्तीति पर्यवसन्नं ।
अवार्य बोधप्रकारः - घटत्वेनेति तृतीयार्थोऽवच्छिन्नत्वं , धात्वर्थे न्वेति । असधात्वर्थोऽस्तित्वं सत्त्वपर्यवसनं । आख्यातार्थ माश्रयत्वं । तथाच-घटवावच्छिन्नास्तित्वाश्रयो घट इति प्रथमवाक्या दोधः । अवाना मधिकरणात्मकतया पटवावच्छिन्नाभावम्य घटस्वरूपत्वा त , तत्र नतमभिव्याहृता सधातोरभावोर्थः , माश्रयत्वमाख्याताथः , इति रीत्या तादृशाभावाश्रयो घट इति बोधेपि तादृशाभावा त्मकत्वमेव घटस्य सिद्धयति, अभावाना मधिकरणात्मकस्यात् । सू. तीयवाक्ये मृव्यपदोत्तर तृतीयाया भवच्छिन्नत्व मर्थः । एवमग्रेपि बोधा ऊह्याः ॥
ननु - सर्वपदार्थानामपि स्वरूपादिचतुष्टय पररूपादिचतुष्टयाभ्यां व्यवस्थाया मंगीक्रियमाणायां स्वरूपादीनां स्वरूपाद्यन्तरस्थाभावा कथं व्यवस्था स्यात् ? तेषामपि स्वरूपान्तरसद्भावे । नवस्था प्रसंगात , सुदूरमपि गत्वा स्वरूपाद्यन्तराभावेपि कस्यचिव्यवस्थायां किं स्वररूपाद्यपेक्षया सत्त्वासत्त्वसमर्थनरूपया स्वगृ हमान्यया प्रक्रियया ? यथा प्रतीति वस्तु व्यवस्थोपपत्तेः ॥ इति - चेत् - अनभिज्ञो भवान् वस्तुस्वरूपपरीक्षायाः । वस्तुस्वरूप प्रतीतिरेव स्वपररूपाचवच्छिन्न सत्त्वासत्त्वादिकं विषयी करोतीति निरूपयितु मुपक्रान्तत्वात् । अन्यथा नानानिरंकुशविप्रतिपत्तीनां निवार यितु मशक्तः । वस्तुनोहि यथैवा बाधितप्रतीति स्तथैव स्वरूपव्यवस्था , ' मानाधीनामेयसिद्धिः । इतिवचनात । एवञ्च - स्वरूपादीनां
For Private and Personal Use Only