________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
सप्तभंगी तरंगिणी। यदपि - पाचकोपर्मिति द्रव्यशब्दः, पाचकत्वमस्येति भावशब्दः, इति व्यभावशब्दयो विभाग निरूपणम्; तदपि न संगच्छते । पाचकशब्देनापि पाचकत्वधर्म विशिष्टस्यैव पुरुषस्याभिधानात् । पाचकत्वमित्यनेनापि पाचकवृत्तित्व विशेषितस्यैव धर्मस्य बो. धनात् ; - इति ।।
'अपरेतु - स्यादस्तीत्यादिवाक्यं सप्तविधमपि प्रत्येक विकलादेशः, समुदितं सकलादेशः; - इतिवदन्ति ।
अत्र चिन्त्यते - कुत स्स्यादस्तीत्यादिवाक्यम् प्रत्येकम् विकलादेशः?
ननु - सकलार्थ प्रतिपादकत्त्वाभाषा द्रिकलादेश इति चेन्न ।तादृशवाक्यसप्तकस्यापि विकलादेशत्वापत्तेः, समुदितस्यापि सदा दिवाक्यसप्तकस्य सकलार्थ प्रतिपादकत्वाभायात, सकलनुतस्यैव स कलार्थ प्रतिपादकत्वात् ।
एतेन . सकलार्थ प्रतिपादकत्वा त्सप्तभंगीवाक्यम् समुदितं सकलादेशः, इति निरस्तन्; समुदितस्यापि तस्य सकलार्थप्रतिशद कत्वासिन्द्रेः, सदादिसप्तवाक्येन एकानेकादि लप्तवाक्यप्रतिपाद्य धर्माणा मप्रतिपादनात् ।।
सिद्धान्तविदस्तु “ एकधर्मबोधन मुखेन तदात्मकानेकोशेष धर्मा त्मक वस्तुविषयक बोधजनकवाक्यत्वम् सकलादेशत्वम् । तदुक्तन् ।
एकगुणमुखेना शेषवस्तु रूपसंग्रहा त्सकलादेशः' इति । तस्यार्थः - यदा - अभिन्नवस्तु एकगुणरूपेणोच्यते । . गुणिना. गुणरूपमन्तरेण विशेषप्रतिपत्ते रसम्भवात ; सदासकलादेशः, एको. हि जीवो ऽस्तित्दादि बकस्य गुणस्य रूपेण अभेद वृत्त्या, अभेदोपचारेणवा, निरंश स्समस्तो वक्तु मिष्यते विभागनिमित्तस्य तत्प्रतियो गिनों गुणान्तरस्या विवक्षितत्वात् । कथममेदवृत्तिः ? कथं वा भदोपचारः इशिचत । दृध्यायलाश्रयणे तदनतिरेका दभेदबु.
.
.
.
.
।
For Private and Personal Use Only