________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। अत्रच प्रत्यक्षादिविरुद्धविधिप्रतिषेधवाक्ये प्वतिव्याप्तिवारणायाविरुद्धेति । घटोस्ति पटो नास्तीत्यादि समुदायवारणाय - ए. कवस्तुविशेष्यकेति । स्यादस्ति घटः, स्यान्नास्ति घटः , इति वाक्यद्धयमात्रे ऽतिव्याप्तिवारणाय सप्तेति । घटमानये स्युदासीन वाक्यवटित निरुक्तवाक्यसप्तके तिऽव्याप्तिवारणाय सप्तवाक्य पर्यातति ।
यद्यपि सत्यन्तनिवेशस्या तिव्याप्यव्याफ्यादि दोषवारकत्वं नसम्भवति, तथापि (१) प्रतिपाद्यप्रश्नानां सप्तविधानामेव स दावा त्सप्तैव भंगा इति नियमसूचनाय तन्निवेशनम् ।
ननु- प्रश्नानां सप्तविधत्वं कथं - इतिचेत्, जिज्ञासानां सप्तविधत्वात् । (२) प्रानिकनिष्ठ जिज्ञासाप्रतिपादक वाक्यहि प्रश्नइत्युच्यते ।
ननु- सप्तधैव जिज्ञासा कुतः, - इतिचेत् ; समधा संशयानामु स्पतेः । संशयानां सप्तविधत्वन्तु तद्विषयीभूत धर्माणां सप्तवि. धत्वात । तादृशधर्माश्च • कथञ्चित्सत्वं, कथञ्चिदसत्वं, क्रमादि
(१) प्रतिपाद्यः - यस्मै प्रतिपादनीयं, सः । उत्तरवक्त्रा पुरुषेण प्रश्नकर्तु र्बोधजननायैवो तरवाक्यकथना प्रश्न कतैवात्र प्र. तिपाद्य शब्दनोच्यते ।
(२) घट मजान पुरुष स्तजिज्ञासया जप्तं कंचि त्पुरुषम् पृच्छति को घट इति । सच कम्बुग्रीवादिमान् घट इत्युत्तरं वक्ति । तत्र को घट इति वाक्येन घट मजानतः पुरुषस्य तजिज्ञासा मवगत्यैवा प्तेनो तर मुक्तमि त्यंगीकार्यम् , अजिज्ञासि तार्थकथनासम्भवात , अन्यथान्यस्यापि यस्य कस्यचि दुक्तिप्रसंगाच्च । तरपुरुषीयघटविषयक जिज्ञासाज्ञानंचा प्तस्य को बट इति वाक्येनैव जातम् । अतः प्रश्नो नाम जिज्ञासाविषयक ज्ञानजनक वाक्यमेव ।
For Private and Personal Use Only