________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांखाकारिका ।
दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ ।
कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात् सांख्यमयी नौरिव विहिता प्रतरणाय ॥ अल्पग्रन्थ ं स्पष्टं प्रमाणसिद्धान्त हेतुभिर्युक्तम् ।
शास्त्रं शिष्य हिताय समासतोऽहं प्रवक्ष्यामि ॥
दुःखयेति । अस्या आर्य्याया उपोद्दातः क्रियते ॥ इह
अगवान् ब्रह्मसुतः कपिलो नाम तद् यथा ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः । आसुरि कपिलचैव वोढुः पञ्चशिखस्तथा । इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः ॥ कपिलस्य सहोत्पना धर्मो ज्ञानं वैराग्यमैश्वर्य्यचेति । एवं स उत्पन्नः सन् अन्धतमसि मज्जज्जगदालोक्य संसारपारम्पर्येण मत्कारुण्यो जिज्ञासमानाय आसुरिगोत्राय ब्राह्मणाय इदं पञ्चविंशतितत्त्वानां ज्ञानम् उक्तवान् यस्य ज्ञानाद दुःखचयो भवति पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥
1
तदिदमाहुः । दुःखत्रयाभिघाताज्जिज्ञासेति । तत्र दुःखवयम् । आध्यात्मिकम् । श्रधिभौतिकम् । आधिदैविकञ्चति ॥ तत्राध्यात्मिकं द्विविधं शारीरं मानसं चेति । शारीरं वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं प्रियवियोगाप्रियसंयोगादि ॥ आधिभौतिकं चतुर्विधं भूतग्रामनिमित्त मनुष्य पशुमृगपतिसरीसृपदंशमशक यूका मत्कुणमत्स्य मकर
For Private and Personal Use Only