________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मांख्यकारिका। ४१ एकादशेन्द्रियबधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा। सप्तदशवधा बुड्वेविपर्य यात् तुष्टिसिद्धीनाम् ॥४६॥ आध्यात्मिकाश्चतसः प्रकृत्युपादानकालभाग्याख्याः। वाह्या विषयोपरमात्यञ्च नव तुष्टयोऽभिमताः॥५०
य एव म्रियतेऽष्ट गुवाहा भ्रस्यते ततस्तस्य महद् दुःखमुत्पद्यते सोऽन्धतामिस्र इति। एवं विपर्ययभेदास्तमःप्रभृतयः पञ्च प्रत्येक भिद्यमाना द्विषष्टिभेदाः संवृत्ता इति । अशक्तिभेदाः कथ्यन्ते ॥४८॥
भवत्व शक्तोश्च करणवैकल्पादष्टाविंशतिभेदा इत्य द्दिष्टं तत्रैकादशेन्द्रियबधाः वाधिय॑मन्धताप्रसुतिरुपजिहिकाघ्राणपाको मूकता कुणित्व' खाजा गुदावत: क्लो व्यमुन्माद इति । सह बुद्धिबधैरशतिरुद्दिष्टा ये बुद्धिबधास्तैः सहाशतोरष्टा. विंशतिभेदा भवन्ति सप्तदशबधा बुद्धेः सप्तदश बधास्ते तुष्टिभेदसिद्धिभेदवपरीत्य न तुष्टिभेदा नव सिद्धिभेदा अष्टौ ये ते विपरीतैः सह एकादशविधा एवमष्टाविंशतिविकल्पा अशक्तिरिति विपर्य यात् सिद्धितुष्टीनामेव भेदक्रमो द्रष्टव्यः । तत्र तुष्टिनवधा कथ्यते ॥ ४६॥ __ आध्यात्मिकाशतम्रस्तुष्टयोऽध्यात्मनि भवा आध्यात्मिकाः ताश्च प्रकृत्यु पादानकालभाग्याख्याः। तत्र प्रक्रत्याख्या यथा कश्चित् प्रकृतिं वेत्ति तस्याः सगुणनिर्गुणत्वं च तेन तत्त्वं तत्कार्य विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्ष एषा प्रकत्याख्या। उपादानाख्या यथा कश्चिहिसायैव तत्वान्युपादानग्रहणं करोति विदण्ड कमण्डलुविविदिकाम्यो मोक्ष इति तस्यापि मास्त्येषा उपादानाख्या। तथा कानाख्या कालेन,
For Private and Personal Use Only