SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् अष्टाविंशतिभेदास्तुष्टिर्नवधाऽष्टधा सिविः ॥ ४७॥ भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः तामित्रोऽष्टदशधा तथा भवत्यन्धतामिस्त्रः॥४८॥ पञ्च विपर्ययभेदास्ते यथा तमो मोहो महामोहस्ता मिस्रोऽन्धतामिस्र इत्येषां भेदानां नानात्वं वक्ष्यतेऽनन्तर• मेवेति। अशक्त स्त्वष्टाविंशतिभेदा भवन्ति करणवैकल्यात् तानपि वक्ष्यामस्तथा च तुष्टिनवधा अईस्रोतसि राजसानि ज्ञानानि। तथाष्टविधा सिद्धिः सात्विकानि जानानि तत्रै. वो स्रोतसि। एतत् क्रमेणैव वक्ष्यन्ते तत्र विपर्ययभेदा उच्यन्ते ॥ ४७॥ तमसस्तावदष्टधा भेदः प्रलयोऽज्ञानाविभज्यते सोऽष्टासु प्रकृतिषु लोयते प्रधानबुवाहङ्कारपञ्चतन्मानाष्टासु तत्र लोनमात्मानं मन्यते मुक्तोऽहमिति तमोभेद एषोऽष्टविधस्य मोहस्य भेदोऽष्टविध एवेत्यर्थः। यत्राष्टगुणमणिमाद्यैश्वयं तत्र सङ्गादिन्द्रादयो देवा न मोक्ष प्राप्त वन्ति पुनश्च तत्क्षये संसरन्त्य षोऽष्टविधो मोह इति। दशविधो महामोहः शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्चविषया सुखलक्षणाः मानुषाणामप्येते एव शब्दादयः पञ्चविषया एवमेतेषु दशसु महामोह इति। तामिस्रोऽष्टदशधाऽष्टविधमैश्वर्यं दृष्टानुश्रविका विषया दश एतेषामष्टादशानां सम्पदमनुनन्दन्ति विपदं नानुमोदन्त्येषोऽष्टादशविधो विकल्पस्तामिसः । यथा तामिसमष्टगुणमैश्वर्य दृष्टानुअविका दशविषयास्तथान्धतामिस्रोऽप्यष्टादशभेद एवं किन्तु विषयसम्पत्तौ सम्भोगकाले For Private and Personal Use Only
SR No.020636
Book TitleSankhyakarika
Original Sutra AuthorN/A
AuthorIshvar Krishna, Goudpada Swami
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1892
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy