________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्य दर्शनम्। पुत्रकर्मवदिति चेत् ॥ ३२॥ ननु यथा पिटनिष्ठेन पुत्वकर्मणा पुत्रस्योपकारो भवति तहाधिकरणनैवादृष्टेन विषयोपरागः स्यादिव्यर्थः ॥ ३२ ॥ दृष्टान्ता सिधा परिहरति ।
नास्ति हि तत्र स्थिर एकात्मा यो गर्भाधानादिना संस्कियते ॥ ३३ ॥
पुत्रेध्यापि तन्मते पुत्रस्योपकारो न घटते हि यस्मात् तत्र तन्मते गर्भाधानमारभ्य जन्मपर्यन्तं स्थायी एक प्रात्मा नास्ति यो जन्मोत्तरकालौनकर्माधिकारार्थं पुत्रेट्या संस्कियेतेति दृष्टान्तस्याप्यसिद्धिरित्यर्थः । अस्म मते तु स्थैर्याभ्यपगमात् तत्राप्यदृष्ट सामानाधिकरण्यमेवास्ति पुत्रेध्या जनितेन पुत्रो पाधिनिष्ठादृष्टेनैव पुत्रोपाधिद्वारा पुत्रस्योपकारादित्यान्मतेऽपि न दृष्टान्तासिद्धिरिति भावः ॥ ३३ ॥ ___ ननु बन्धस्यापि क्षणिकत्वादनियतकारणकोऽभावकारणको वा बन्धोऽस्त्वित्याशयेनापरो नास्तिकः प्रत्यवतिष्ठते ।
स्थिरकाOसिद्धेः क्षणिकत्वम् ॥ ३४॥ बन्यस्येति शेषः। भावस्तुक्त एव । अत्रायं प्रयोगः विवादास्पदं बन्धादि क्षणिक सत्त्वाहीपशिखादिवदिति । न न घटादौ व्यभिचारस्तस्यापि पक्षसमत्वात्। एतदेवोतं स्थिर कार्यासिझेरिति ॥ ३४ ॥ समाधत्ते ।
न प्रत्यभिज्ञाबाधात् ॥ ३५ ॥ न कस्यापि क्षणिकत्वमिति शेषः। यदेवाहमद्राक्षं तदे
For Private And Personal Use Only