________________
Shri Mahavir Jain Aradhana Kendra
प्रथमोऽध्यायः ।
२७
तन्मते परिच्छिन्रो देहान्तस्थ एवात्मा तस्याभ्यन्तरस्य न बाह्यविषयेण सहोपरज्ञ्जयो परज्ञ्जकभावोऽपि सम्भवति । कुतः । सुप्रस्थपाटलिपुत्रस्थयोरिव देशव्यवधानादित्यर्थः । संयोगे सत्येव हि वासनाख्य उपरागो दृष्टः । यथा मञ्जिष्ठावस्त्रयोः यथा वा पुष्पस्फटिकयोरिति । अभिशब्देन खमतेऽपि संयोगाभावादिः समुच्चयते । सुनपाटलिपुत्रौ विप्रकृष्टौ देशविशेषौ ॥ २८ ॥
ननु भवतामिन्द्रियाणामिवास्माकमात्मनो विषयदेशे गमनाद्विषयसंयोगेन विषयोपरागो वक्तव्यस्तत्राह ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वयोरेकदेशलब्धोपरागान्न व्यवस्था ||२६|| दयोर्बद्धमुक्तात्मनोरेकस्मिन् विषयदेशे लब्धविषयोपरागान बन्धमोच व्यवस्था स्यात् । मुक्तस्यापि बन्धापत्तेरित्यर्थः
॥ २८ ॥
यत्र शङ्कते ।
अदृष्टवशाच्चेत् ॥ ३० ॥
नन्वेकदेश सम्बन्धेन विषयसंयोग साम्येऽप्य दृष्टवशादेवीपरागलाभ इति चेदित्यर्थः ॥ ३० ॥
परिहरति ।
न हयोरेककालायोगादुपकार्य्योपकारक
भावः ॥ ३१ ॥
क्षणिकत्वाभ्युपगमाद्दयोः कर्त्तृभोक्कोरेककालासत्त्वेन नोपकार्य्योपकारकभावः । न कर्तृनिष्ठादृष्टेन भोक्तृनिष्ठो विषयोपरागः सम्भवतीत्यर्थः ॥ ३१ ॥
शङ्कते ।
For Private And Personal Use Only