________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
२५
शकते।
विरुद्धोभयरूपा चेत् ॥ २३ ॥ ननु विरुडं यदुभयं सदसच्च सदसविलक्षणं वा तद्रूपैवाविद्यावतव्यातो न तया पारमार्थिकाद्वैतभङ्ग इति चेदित्यर्थः । स्वयं तु सदसत्त्व प्रपञ्चस्य यहक्ष्यति तत्र सत्त्वासत्त्वे व्यक्ताव्यक्तत्वरूपत्वाविरुडे एव न भवत इति सुचयितु विरुद्धपदोपादानम् ॥ २३ ॥ परिहरति ।
न ताहक पदार्थाप्रतीतेः ॥ २४॥ सुगमम्। अपि चाविद्यायाः साक्षादेव दुःखयोगाख्य. बन्धहेतुत्वे ज्ञानेनाविद्याक्षयानन्तरं प्रारब्धभोगानुपपत्तिः । बन्धपयायस्य दुःखभोगस्य कारणनाशादिति। अस्मदादिमते तु नायं दोषः संयोगहारैवाविद्याकर्मादीनां बन्धहेतुत्वात् । जन्माख्यश्च संयोगः प्रारब्धसमाप्ति विना न नश्यतीति ॥ २४ ॥
पुनः शङ्कते। न वयं षट्पदार्थवादिनी वैशेषिकादिवत् ॥२५॥ ___ ननु वैशेषिकाद्यास्तिकवन्न वयं षट्षोड़शादिनियतपदार्थशादिनः । अतो प्रतीतोऽपि सदसदात्मकः सदसदिलक्षणो वा पदार्थोऽविद्येत्यभ्यु पेयमिति भावः ॥ २५ ॥ परिहरति।
अनियतत्वेऽपि नायौक्तिकस्य संग्रहोऽन्यथा बालोन्मत्तादिसमत्वम् ॥ २६ ॥
पदार्थनियमो मास्तु तथापि भावाभावविरोधेन युक्तिविरुदस्य सदसदात्मकपदार्थस्य संग्रही भवहचनमानाच्छि
For Private And Personal Use Only