________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः ।
२४३
दिरेव। वीजाङ्गरवत् प्रामाणिकत्वादित्यर्थः। आकस्मिकत्व मुक्तस्यापि पुनर्भोगापत्ते रिति ॥ ६७ ॥
अविवेकनिमित्तकत्वमतेऽप्य तदनादित्व समानमित्याह ।
अविवेकनिमित्तो वा पञ्चशिखः ॥८॥
अविवेकनिमित्तो वा स्वखामिभाव इति पञ्चशिख आह । तन्मतेऽप्यनादिरित्यर्थः । एतदेव स्वमतं प्रागुतत्वात्। अविवेकश्च प्रलयेऽपि कर्मवदेवास्ति वासनारूपेणेति। विवेकप्रागभावोऽविवेक इति मते तु वीजाङ्गरवदनादित्व न घटते । अखण्ड प्रागभावस्यैवाखिलभोगहेतुत्वादिति ॥ ६८ ॥
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य:
सनन्दनाचार्यस्तु लिङ्गशरीरनिमित्तक: प्रकृतिपुरुषयोभोंग्यभोक्तृभाव खा लिङ्गशरीरहारैव भोगादिति। तन्मते. ऽप्यनादिः स इत्यर्थः । यद्यपि प्रलये लिङ्गशरीरं नास्ति तथापि तत्कारणमविवेकवार्मादिकं पूर्वसर्गीयलिङ्गशरोरजन्यमस्ति तदुहारा वीजाङ्गुरतुल्यत्व खखामिभावलिङ्गशरीरयोरित्याशयः ॥ ६ ॥ शास्त्रवाक्यार्थमुपसंहरति।
यहा तहा तटुच्छित्तिः पुरुषार्थस्तदुच्छित्तिः पुरुषार्थ: ॥ ७॥
कर्मनिमित्तो वाविवेकादिनिमित्तो वा भवतु प्रकृतिपु. रुषयो ग्यभोक्तृभावः सर्वथाप्यनादितया दुरुच्छेद्यस्य तस्यो.
For Private And Personal Use Only