________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् । पुरुषार्थता स्यादिति। तब। एवमपि पुमाविदुःख इति श्रवणमननोत्तरं दुःखहानार्थ निदिध्यासनादौ प्रवृत्त्यनुपपत्तेः। बह्वायाससाध्ये ह्युपाये फलनिश्चयादेव प्रवत्तिर्भवति प्रकृते तु श्रवणमननाभ्यां सिद्धत्वज्ञानावाप्रामाण्यवानानास्कन्दितः फलस्यासिद्धत्वनिश्चयोऽस्तौति । किञ्च भवतु कदाचित् भ्रमादिना पुरुषेच्छाविषयत्वं दु:खाभावस्य श्रुतिस्तु मोहनाशिनी कथं सिद्धस्य फलत्वं प्रतिपादयेत् । तरति शोकमात्मविहिवान् हर्षशोको जहातीत्यादिरिति । अत्रोच्यते । न नित्यशुद्धबद्धमुक्तस्वभावस्य तद्योगस्तद्योगात इति हेय हेत्ववधारकसूत्रे. शैवायं पूर्वपक्षः समाधास्यते । तथाहि । प्रतिविम्वरूपेण पुरु. षेऽपि सुखदुःखे स्व: । अन्यथा तयोर्नोग्यत्वानुपपत्तेः। सुखा. दिग्रहणं हि भोगः । ग्रहणं च तदाकारता। सा च कूट स्थचितो बुद्धेराकारवत् परिणामो न सम्भवतीत्यगत्या प्रतिविम्बस्वरूपतायामेव पर्यवस्यति । अयमेव बुद्दित्तिप्रतिविम्बो बत्तिसारूप्यमितरत्नेति योगस्तूत्रेणोक्तः। सत्त्वेऽनुतप्य. माने तदाकारानुरोधात् पुरुषोऽप्यनुतप्यत इव दृश्यत इति योगभाग्थे च तदाकारानुरोधशब्देन विशिष्थैव तापादिदुःखस्य प्रतिविम्ब उक्तः। अत एव च पुरुषस्य वुद्धिवृत्त्युपरागे स्फटिकं दृष्टान्तं सूत्रकारो वक्ष्यति। कुसुमवच्च मणेरिति । वेदान्तिभिरपि चेतनेऽध्यस्ततयैव दृश्यभानमुच्यते। स चाध्यासः प्रतिविम्बं विना न घटेत ज्ञानमात्रत्याध्यासत्वे आत्माश्रयात् । अध्यासाजज्ञानं ज्ञानमेव चाध्यास इति । तदेतत् स्मयतेऽपि ।
तस्मिंश्चिद्दपणे स्फार समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिविम्बन्ति सरसीव तटद्रुमाः ॥ इति । अत्र हि दृष्टिशब्दो बुद्धित्तिसामान्यपरो युक्तिसाम्यात्। प्रतिविम्बश्च तत्तदुपाधिषु विम्बाकारश्चित्तपरिणाम
For Private And Personal Use Only