SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितीयोऽध्यायः। हितीयोऽध्यायः । शास्त्रास्त्र विषयो निरूपितः। साम्प्रतं पुरुषस्यापरिणामित्वोपपादनाय प्रकृतितः सृष्टिप्रक्रियामतिविस्तरेण हितीयाध्याये वक्ष्यति। तत्रैव प्रधान कार्याणां वरूपं विस्तरतो वनव्यं तेभ्योऽपि पुरुषस्थातिस्फटविवेकाय। अत एव । विकारं प्रकृतिं चैव पुरुषं च सनातनम् । यो यथावद्विजानाति स विष्णो विमुच्यते ॥ इति मोक्षधर्मादिषु त्रयाणामेव ज्ञेयत्ववचनम्। तवा दावचेतनाया: प्रतिनिध्य योजनस्रष्टुत्वे मुक्तस्यापि बन्धप्रसङ्क इत्याशयेन जगत्सर्जने प्रयोजनमाह । विमुक्तमोक्षार्थ स्वार्थं वा प्रधानस्य ॥ १॥ कर्तत्वमिति पूर्वाध्यायशेषसूवादनुषज्यते स्वभावतो दुःखबन्धादिमुक्तस्य पुरुषस्य प्रतिविम्बरूपदुःखमोक्षार्थ प्रतिविम्बसम्बन्धेन दुःखमोक्षार्थ वा प्रधानस्य जगत्कर्तत्वम् । अथवा स्वार्थम्। स्वस्य पारमार्थिकदुःखमोक्षार्थमित्यर्थः । यद्यपि मोक्षवद्भोगोऽपि सृष्टेः प्रयोजनं तथापि मुख्यत्वान्मोक्ष एवोक्तः ॥१॥ ननु मोक्षार्थं चेत् सृष्टिस्तहिं सवत् सृथ्य व मोक्षसम्भव पुनः पुनः सृष्टिन स्यादिति तबाह । विरक्तस्य तत्सिद्देः ॥ २॥ नैकदा सृष्ट र्मोक्षः किन्तु बहुथो जन्ममरणव्याध्यादिवि. विधदुःखेन भृशं तप्तस्य ततश्च प्रकतिपुरुषयोविवेकख्यात्योत्यनपरवैराग्यस्यैव मोक्षोत्पत्तिसिद्धरित्यर्थः ॥ २ ॥ सकत् सध्या वैराग्यासिद्धी हेतुमाह । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy