________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
सांख्यदर्शनम् । इति च । प्रकाशत्व च तेजःसत्त्वचैतन्येष्वनुगतमखण्डोपाधिरनुगतष्यवहारादिति ॥ १४५ ॥
ननु प्रकाशखरूपत्वेऽपि तेजोवामधर्मिभावोऽस्ति न वा
निर्गुणत्वान्न चिदर्मा ॥ १४६ ॥ सुगमम् । पुरुषस्य प्रकाशरूपत्वे सिचे तत्सम्बन्धमावेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्पना गौरवमित्यपि बोध्यम् । तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्पर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः सिध्यति । आत्मनस्तु ज्ञानाख्यप्रकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाघवाधर्मार्मभाव. शून्यं प्रकाशरूपमेवात्मद्रव्यं कल्पाते। तस्य च न गुण त्वम् । संयोगादिमत्त्वात् । अनाश्रितत्वाचेति । तथाच स्मयं ते।
ज्ञानं नैवात्मनो धर्मो न गुणो वा कथञ्चन । ज्ञानस्वरूप एवात्मा नित्यः पूर्णः सदा शिवः ।
इति । ननु निर्गुणत्व एव का युक्तिरिति चेत् । उच्यते पुरुषस्येच्छाद्यास्तावन्नित्या न सम्भवन्ति जन्यताप्रत्यक्षात् । जन्यगुणाङ्गोकार परिणामित्वापत्तिः। तथा चोभयोरेव प्रकृतिपुरुषयोः परिणामहेतुत्वकल्पने गौरवम्। आन्ध्यपरिणामेन कदाचिदन्जत्वस्यापत्त्या ज्ञानेच्छादिगोचरसंशयापत्तिश्च। तथा जड़प्रकाशायोगस्योक्तवादपि न नित्यस्यानित्यजानसम्भव इति । इच्छादिकमन्वयव्यतिरेकाभ्यां मनस्येव लाघवात् सिध्यति । मनःसंयोगस्यात्मनश्चोभयोस्तछेतुत्वे गौरवात्। गुणशब्दश्च विशेषगुणवाचीत्य तमेव । अत आत्मा निर्गुणः। अपिच ये तार्किका यात्मनः कर्तत्वमिच्छन्ति तेषां मोक्षानुपपत्तिः। यहं कतै ति बुद्धेरेव गौतादिष्वदृष्टोत्
For Private And Personal Use Only